SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सुधीः सौधमात्मीयं ध्वंसते कीलिकाकृते ॥ ४७ ॥ इहापि पुत्रतः शर्म जायते वा न जायते । भवे भवे तु सम्यक्त्वादसंख्याः सौख्यसंपदः ॥ ४८ ॥ ततोऽनन्यमनाः प्राज्ञ ! श्रीजिनाज्ञापरायणः । विधेहि धर्मकर्तव्ये यलमप्रलभावतः ॥ ४९ ॥ यदि पुण्यवशाज्जज्ञे नन्दनस्ते तदा वरम् । बलवत्तदभावे तु कृतं स्यात् प्रेत्यशम्बलम् ॥ ५० ॥ इति कान्तो कमाकर्ण्य कर्णयोरमृतायितम् । अहो ! अस्या न कस्यास्तु प्रशस्या दृढधर्मता ॥ ५१ ॥ कटरे मतिरेतस्याः परिणामहितावहा । इत्यन्तविस्मयाविष्टः श्रेष्ठी हृष्टः प्रकृष्टधीः ॥ ५२ ॥ मेने तस्या वचो मन्त्रमिव स्वाभीष्टसिद्धिदम् । दुर्गाया अपि मान्यः स्यादनुकूलः स्वरो न किम् ॥ ५३ ॥ त्रिभिर्विशेषकम् ॥ अथायं गृहकर्त्तव्ये भर्तव्येषु निवेशिते । विशिष्य धर्ममाराद्धुमारेभे शुभभावनः ॥ ५४ ॥ तद्यथा — उद्दण्डमण्डप श्रेणिमण्डितं खण्डिताशुभम् । अचीकरदयं चैत्यं शैत्यदं सुदृशां दृशाम् ॥ ५५ ॥ | हरिण्मयीर्मणिमयीर्नानाजैनेश्वरीरयम् । आनन्दिनीरप्रतिमाः प्रतिमा निरमापयत् ॥ ५६ ॥ चन्दनागुरुकर्पूरकस्तुरीकुसुमादिभिः । अपूपुजदपव्याजमयं संध्यात्रयेऽर्हतः ॥ ५७ ॥ पुण्योपदेशपीयूषपाणप्रवणमानसः । गुरूणां चरणाम्भोजमुपासामास सोऽनिशम् ॥ ५८ ॥ वन्दिनां द्रव्यदानेन निगडानि स पण्डितः । आत्मनो दुष्कृतानीव भञ्जयामास नैकशः ॥ ५९ ॥ अयमाईत सिद्धान्तबन्धुरा मधुराशयः । हर्षेण लेखयामास पुस्तिकाः स्वस्तिकाम्यया ॥ ६० ॥ अमारिं स नृपा| देशादजूघुपदखण्डिताम् । पूर्वदुष्कर्मशत्रूणां जैत्रभेरीमिवाभितः ॥ ६१ ॥ यथाविधि सुपात्रादौ ददौ सौवधनान्यसौ । अनन्तगुणलाभार्थं न्यस्यन्निव कलान्तरे ॥ ६२ ॥ पौषधावश्यकादीनि विधिना श्रद्धयोद्धुरः । आरराध सुधीश्चिन्तार - लानीव स यत्नतः ॥ ६३ ॥ इत्यगण्यानि तत्त्वज्ञा तदीया प्रणयिन्यपि । तन्तन्यते स्म पुण्यानि सर्वज्ञाज्ञाविशारदा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy