________________
सुन्दरी । गेहश्रीरिव या मूर्ता चकासामास जङ्गमा ॥ १७॥ सर्वाङ्गेष्वपि सौन्दर्यमसौ रतिरिवाद्भुतम् । दधाना स्वाभिधानस्य यथार्थत्वमपप्रथत् ॥ १८॥ जैनधर्मेण रागेण हृदयं सदयं तयोः। अहार्य रञ्जयामासे माञ्जिष्ठेनांशुकं यथा ॥१९॥ धर्मकर्मपरत्वेन सकलाऽपि कला तयोः । भजते स्म परां शोभां मुखश्रीरिव चक्षुषा ॥ २०॥ वत्सराः प्रचुरा जग्मुः प्रेम-18 स्थेमभृतोस्तयोः । अभङ्गसुखसंभोगभासुरा वासरा इव ॥२१॥ अन्यदा यामिनीयामे चरमे परमेष्ठिनः । स्मृत्वा स्वरूपमात्मीयं श्रेष्ठी स्पष्टं विमृष्टवान् ॥ २२॥ सुशीला कोमलालापा भक्ता चित्तानुवर्तिनी । मनोविश्रामभूमि, गृहिणी गृहभूषणम् ॥ २३ ॥ स्वर्णदुर्वर्णरत्नानां गणा मम गृहाङ्गणे । गणनामपि नो यान्ति कणानां निकरा यथा ॥ २४॥ चीरकर्पूरकस्तूरीप्रभृतीनां गृहे मम । वस्तूनां किल नो पारः पारावार इवाम्भसाम् ॥२५॥ तुरङ्गास्तरलास्तुङ्गाश्चङ्गाः पवनगामिनः । भीषयन्त इवालक्ष्मी हेषमाणा ममालये ॥ २६ ॥ परेऽपि सौरभेयोष्ट्रसुरभीकरभीमुखाः । चतुष्पदा मदावासे श्वापदा इव कानने ॥ २७ ॥ अपारः परिवारोऽयं मदा कपरायणः । बन्धुवर्गः समग्रोऽपि मयि गाढानुरागवान ॥ २८ ॥ कल्पपादपसंवादः प्रसादः पार्थिवस्य मे। पौरा अपि परप्रीतिप्रतिपत्तिपरा मयि ॥ २९ ॥ परं गृहस्थतावल्लिर्भोगैः। पल्लविताऽप्यसौ । मनो दुनोति मे नूनमपत्यफलवर्जिता ॥३०॥ इयं मम प्रभूताऽपि विभूतिस्तनयं विना । अरण्यारामलक्ष्मीवदफला सकलाऽपि ही ॥३१॥ समृद्धमपि नो भाति सुतेन विकलं कुलम् । शाखाशतसमेतोऽपि फलेनेव महीरुहः ॥ ३२॥ रजनी रजनीकरं विना दिननाथं च विना यथा दिनम् । सुकृतं च विना मनुष्यता न कुलं भाति तथा
१ "रजयामासे” इत्यत्र मतान्तरे हकारोऽपि भवति, यथा-"रजयामाहे" इति ।