SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥७४॥ ॥अथ पञ्चमः प्रकाशः॥ पश्चम: जयत्यसीममाहात्म्यः पात्रदानसुरदुमः । यस्य लीलायितं शालिभद्रादीनां विभूतयः॥१॥ अथो तृतीयदानस्य भेदः प्रकाश सुकृतमेदुरः । द्वैतीयीकः शयनीयदानरूपः प्ररूप्यते ॥२॥ द्विधा हि शयनं वर्षाशेषकालव्यपेक्षया । तत्राद्यमनवद्येन81 निर्मितं सारदारुणा ॥३॥ द्वितीयं पुनरूर्णादिजनितं कम्बलादिकम् । कल्पतेऽनल्पकल्पानां मुनीनामीहगेव हि ॥४॥ सामान्यस्याप्यगण्यं हि पुण्यं शयनदानतः । स्वाध्यायध्यानलीनस्य किं पुनस्त्यक्तवेश्मनः॥५॥ विश्रामाय मुनीशानां शयनं यः प्रयच्छति । तस्य संसारखिन्नस्य विश्रामः सुलभः शिवे ॥६॥ यतः संयमयोगेषु शिवसिद्धिविधायिषु । तेषां शयनदानेन साहाय्यं सृज्यतेऽमुना ॥७॥ अर्थतो युग्मम् ॥ प्रमादाङ्गतया तेभ्यस्तद्दानं न च नोचितम् । यथाविधि स्वपन्तस्ते भावतो जाग्रतो यतः॥ ८॥ ततो विशुद्धभावेन दानीयमतनीयसा । शयनीयमनीहेन मुनीन्द्रेभ्यो मनीषिणा ॥९॥ आसादयति शय्याया दायकः कृतिनायकः । पद्माकर इवासीमा: संपदोऽनापदोऽभूताः॥१०॥ तथाहि| इहास्ति भरतक्षोणीपक्ष्मलाक्षीविशेषकम् । स्वःपुरस्पर्द्धिवर्द्धिश्रीभरं पुष्पपुरं पुरम् ॥ ११॥ तस्मिन् सर्वसुखावासे निवा-16 सैकसमीया । भारत्या सह तत्याज कमला कलहायितम् ॥ १२॥ तत्र वित्रासितामात्रशात्रवः पात्रमोजसाम् । क्षोणीशः ॥७४ ॥ शेखरो नाम निःशेषनृपशेखरः॥ १३ ॥ अनीतिभावं नीताऽपि सर्वकालं समन्ततः। चित्रं वसुमती तेन वितेने नीतिशालिनी ॥ १४ ॥ प्रसादपात्रं तस्यासीदसीमगुणशेवधिः । विख्यातस्तिलकः श्रेष्ठी तिलकः पुण्यकारिणाम् ॥१५॥ यशांसि भुवने तस्य धनानि भवने पुनः । बद्धस्पर्धतयेवोच्चैरवर्धन्त परस्परम् ॥ १६ ॥ शीलसिंहदरी तस्य सुन्दरी रति-|
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy