________________
दानप्रदीपे
॥ १७६ ॥
॥ १०८ ॥ अन्यदा संविदादर्शसंक्रान्तभुवनत्रयः । क्षालितान्तर्मलस्तत्र केवली समवासरत् ॥ १०९ ॥ सरोरुहं सुरैर्भाव - भासुरैस्तत्र हैमनम् । विशालं खेलनायेव धर्मलक्ष्म्या विनिर्ममे ॥ ११० ॥ विशुद्धपक्ष रोचिष्णुस्तत्त्वातत्त्वविवेककृत् । मुनिःश्वेतांशुकस्तत्र स आसामास हंसवत् ॥ १११ ॥ तस्यागमनमाकर्ण्य प्रमोदभरभासुराः । भूपः श्रेष्ठी च पौराश्च वन्दका तमुपागमन् ॥ ११२ ॥ त्रिः परीय धरारेण्वा चन्दनेनेव संमदात् । भालं तिलकयन्तस्ते प्रणेमुस्तं मुनीश्वरम् ॥ ११३ ॥ प्रोज्जृम्भनयनाम्भोजाः पर्युपास्यां विधित्सवः । निषेदुस्ते पुरस्तस्य भूपतेरिव पत्तयः ॥ ११४ ॥ अथो गिरा साम्बुपयोदग जिगभीरया धर्मगुरुर्जगाद | सन्मार्गमानेतुमिवाङ्गभाजः शब्दायमानः कुपथप्रवृत्तान् ॥ ११५ ॥ रूपायुरारोग्यबलादिसंपदुपेतमासाद्य मनुष्यजन्म । धर्मे प्रयत्नः सततं सुधीभिर्विधीयतां स्वात्महितैकतानैः ॥ ११६ ॥ धर्मो वपुर्वैभवबान्धवेभ्यो विशिष्टतां स्पष्टमुरीकरोति । यतोऽयमेकान्तहितः परत्र सहानुगामी न पुनस्तथाऽमी ॥ ११७ ॥ कल्पद्रुम स्वर्मणिकामकु म्भप्रायाः पदार्थाः प्रथितप्रभावाः । नियोगितां धर्ममहानृपस्य राज्ये वितन्वन्ति तदैकगृह्याः ॥ ११८ ॥ उपायते प्राज्यमनेन राज्यं गुणव्रजेनेव यशो विशालम् । परश्वधेनेव वनं समूलमुन्मूल्यते चाखिलदुःखजालम् ॥ ११९ ॥ मलीमसं वास इवोदकेन धर्मेण नैर्मल्यमहो ! क्षणेन । आनीयतेऽनन्तभवोपनीतप्रभूतपापैर्मलिनोऽपि जीवः ॥ १२० ॥ तनूमतां दुर्गतिपातुकानां सपातकानामचिरेण धर्ता । धाता पुनस्तान् सुगतौ यदेष बुधैस्ततो धर्म इति प्रणीतः ॥ १२१ ॥ इहैव कीर्त्ति सुमतिं प्रतिष्ठां धर्मः समृद्धीर्विविधा विधत्ते । स्वर्गापवर्गाद्भुत संपदस्तु परत्र चिन्तातिगताः प्रदत्ते ॥ १२२ ॥ निषेवणीयः स्वहितैषिणा तद्दिवानिशं श्रीजिनधर्म एव । यथास्थितोपायविनाकृतो हि नैवाश्नुते सम्यगुपेयसिद्धिम् ॥ १२३ ॥ दान
एकादशः प्रकाशः ॥
॥१७६॥