________________
RRCH45%
वायत्तमेवेदं तस्यासद्भूतवादिनः ॥ ९२ ॥ अयं नूनमभाग्यानां ग्रामणीर्दुर्गताग्रणीः। निधानाढ्यं निजं धाम दरमुज्झांचकार यः॥ ९३ ॥ धत्ते धनपतेः पुण्यमगण्यं जागरूकताम् । यन्निधिं लीलया लेभे परगेहगमप्ययम् ॥ ९४ ॥ अयं पूर्वभवे नूनं तपोऽतप्यत दुस्तपम् । श्रियोऽमुं स्वयमायान्ति यदर्णवमिवापगाः ॥९५॥ एवं तयोस्तदा कीर्त्यपकीर्ती विस्फु-द रत्तरे । विरेजतुर्जने गङ्गायमुने इव सङ्गते ॥ ९६ ॥ अथ तं पिशुनः कोऽपि निधिं नृपमजिज्ञपत् । परेषामुपतापे हि भुजङ्ग इव दुर्जनः॥९७॥ नृपेणाकारितः श्रेष्ठी सद्यः संसदमासदत् । निःशङ्का एव सर्वत्र पवित्रचरिता यतः ॥ ९८॥ राज्ञा पर्यनुयुक्तोऽयं व्यक्तमेव तदुक्तवान् । वक्तव्यं नानृतं क्वापि नृपादौ तु विशेषतः ॥ ९९ ॥ सम्यक् तदुक्तमाकर्ण्य विस्मयोत्कर्णिताननः । ददानो बहुमानं तं जगाद मुदितो नृपः ॥ १०॥ निधिः श्रेष्ठिस्तवोत्कृष्टैः पुण्यैः प्रादुरभुदयम् । | इयन्तं समयं कोऽपि तं नाप कथमन्यथा ॥ १०१॥ युक्तमेतमुपादातुं कुर्वन्तं कलहं त्वया । अदशहन्दशकस्तमन्यायं ज्ञातवानिव॥१०२॥अतो मे सर्वथा नायमादातुमुपपद्यते। मेदिनीशो ह्यनादेयमाददानोन नन्दति॥१०॥यदुक्तं नीतिशास्त्रे
"अनादेयं न गृह्णीयात् परिक्षीणोऽपि पार्थिवः। न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥१॥" तदेनं स्वयमादत्स्व स्वच्छन्दमुपभुङ्ग च । त्वदीयसुकृतेनेव व्यतीर्यत मयाऽप्ययम् ॥ १०४ ॥ इत्युक्तः सत्कृतस्तेन विसृष्टः श्रेष्ठिपुङ्गवः । गृहं जगाम मालिन्यमाननं पिशुनस्य च ॥ १८५॥ प्रशस्ते च क्षणे सर्वशुभलक्षणभूषितम् । अध्युवास नवावासमसौ वाणिज्यवासवः ॥ १०६ ॥ प्रीणयन्तो जनं वृद्धिं नयन्तः पुण्यकाननम् । प्रावर्तन्तोत्सवास्तस्य घनाः प्रावृषिजा इव ॥१०७॥ पुरुषार्थत्रयी तेन निधिना तस्य सन्ततम् । स्फातिमासेदुषी दानभोगार्था हि श्रियः सताम्