________________
तत् ॥ ३७४ ॥ ततोऽपप्तद्विहायस्तः सहसा स्वर्णपूरुषः । तं च वीक्ष्य जहर्षायमगोपायच्च लोभतः॥ ३७५ ॥ इत्यन्येषा-1 मपि स्वर्णपुरुषाप्तिरजायत । परस्परमगोपायंस्तेऽपि लोभानुभावतः॥ ३७६ ॥ चत्वारोऽपि प्रगे भिन्नहृदो भ्रमुरितस्ततः। | वक्तुकामा मिथो गुप्तीकृतार्था इव सोदराः॥ ३७७ ॥ साजात्यात्समगंसातां राजारक्षसुतावथ । वृत्तान्तं च मिथोऽवक्तामेवमन्यावपि स्वयम् ॥ ३७८ ॥ तत्राद्यावममन्त्रेताममात्रैः सुकृतैरिमौ । सिद्धौ स्वर्णनरौ युक्तौ न दर्शयितुमेतयोः॥३७९॥ तद्भागोऽप्यनयोर्दातुं वणिजोनव युज्यते । ज्ञाते मैत्र्या च याचन्तौ कलिमेतौ करिष्यतः॥ ३८॥ तदेतावविजानन्तौ निहन्येते कथञ्चन । अधुना चान्नमानेतुं प्रेष्येते ग्राममन्तरा ॥ ३८१॥ प्रत्यायान्ताविमौ कुञ्जान्तरिताभ्यामुभावपि । आवाभ्यां घातयिष्येते खगघातमतर्कितम् ॥ ३८२ ॥ ततश्चावां गृहं प्राप्तौ विप्रतार्य तयोः पितॄन् । स्वयं भोक्ष्यावहे स्वैरं सुवर्णपुरुषाविमौ ॥ ३८३ ॥ इति तौ वणिजौ ताभ्यां प्रहितौ ग्राममन्तरा । के के लोभपिशाचोऽयं नाधत्ते धीविपर्ययम् ॥ ३८४ ॥ गच्छन्तौ तावपि ग्राम मन्त्रयामासतुर्मिथः । सुकृतैरमितैरेतौ सिद्धौ नः स्वर्णपूरुषौ ॥ ३८५॥ दुर्धर्षों क्षत्रियावेतौ प्रसह्याच्छेत्स्यतः परम् । तदमू द्रुतमावाभ्यां निहन्तव्यौ विषादिना ॥ ३८६ ॥ इति तौ विषसंपृक्तं भक्तं कृत्वा समागतौ । अहसातां द्रुतं ताभ्यां हहा लोभविजृम्भितम् ॥ ३८७ ॥ तद्विषान्नमजानन्तौ भुक्त्वाऽन्यावपि मम्रतुः।। प्रथयेन्न कुपात्रस्थः कां कामर्थः कदर्थनाम् ॥३८८॥अत्र चावसरे नत्वा नन्दीश्वरजिनेश्वरान् । प्रत्यायान्तौ यती कौचित्तदुपान्तमुपेयतुः ॥ ३८९ ॥ तानिरीक्ष्य स वैलक्ष्यः शिष्यो मुख्यर्षिमाख्यत । इत्थं जग्मुरमी केन कर्मणा मरणं समम् ॥ ३९०॥ आख्यन्मुख्योऽपि सुग्रामे ग्रामे नृपतिपत्तयः। चत्वारः क्षत्रियाश्चित्रपवित्रस्थितयोऽभवन् ॥ ३९१॥ ग्राम