________________
नायिषि केनापि कौतुकादथ कैतवात् ॥ २७४ ॥ आज्ञातं चेष्टितं तस्या जरत्या दुष्टताभृतः। प्रमातिगं पणस्त्रीणां यतः कपटपाटवम् ॥ २७५ ॥ इति चिन्तातुरं तारचन्द्रं पोतपतिस्तदा । तत्रातर्कितमालोक्य प्रत्यभिज्ञाय पिप्रिये ॥२७६॥ ससंभ्रमं समुत्थाय नत्वा तं परिषस्वजे । विदित्वा कुरुचन्द्रं तं तारचन्द्रोऽप्यमोदत ॥ २७७ ॥ उवाच कुरुचन्द्रस्तं तवाकस्मिकमद्य मे । बभूव दर्शनं मित्र ! च्युतचिन्तामणेरिव ॥ २७८ ॥ भ्रान्तोऽसि कुत्र कुत्र त्वं कथं नीरोगता च ते । कथं चात्रागमो मित्र ! सर्वमेतन्निवेद्यताम् ॥ २७९ ॥ इति पृष्टस्तमाचष्ट वृत्तं भूपतिभूनिजम् । सम्मेतगमनारोग्यजरतीवञ्चनादिकम् ॥ २८०॥ एतन्निशम्य निःसीमविस्मयस्मेरलोचनः । भाग्यमुजागरं तस्य मन्त्रिसूः प्रशशंस सः ॥ २८१॥ जगौ नृपाङ्गभूमित्र ! कथमत्रागमस्तव । इति पर्यनुयुङ्गस्तमुवाच सचिवाङ्गजः॥२८२॥ श्रावस्त्यास्त्वयि निष्क्रान्ते त्वद्वियोगेन दुःखितः। भूपः प्राप रतिं क्वापि भवनेऽपि वनेऽपि नो ॥ २८३ ॥ त्वां गवेषयितुं सर्वदिक्षु प्रैष्यन्त पूरुषाः। |कुतोऽप्यानायि केनापि प्रवृत्तिस्तव नो पुनः॥ २८४ ॥ त्वां विना दुःस्थितः स्थातुं नाहं क्षणमपि क्षमे । तदादाय नृपा-11 देशं प्राचलं त्वां विलोकितुम् ॥ २८५ ॥ बभ्राम नीवृतोऽनेकास्त्वदीयविरहाकुलः । निधानमिव निष्पुण्यो न वापि त्वामवाप्नुवम् ॥ २८६ ॥ ततः पोतपतीभूय परद्वीपेषु वीक्षितुम् । गच्छतोऽतर्कितं जातं ममाद्य तव दर्शनम् ॥ २८७ ॥
श्रमो मे सफलो जज्ञे फलिता देवताशिषः । भाग्यं जागरितं चाद्य यत्त्वं दृक्पथमागमः ॥ २८८ ॥श्रावस्त्यामस्ति सर्वेषां & कुशलं किन्तु संततम् । त्वद्वियोगमहाव्याधिर्बाधते भूधवादिकान् ॥ २८९ ॥ ततः स्वदर्शनानन्दपीयूषरससेकतः।
पित्रादीनां मनस्तापं निर्वापय कृपार्णव !॥ २९० ॥ इत्युक्ते कुरुचन्द्रेण तारचन्द्रो विनिद्रधीः। पितरौ दृष्टुमुत्कण्ठाम
RECASSA