________________
दानप्रदीपे
चतुर्थः प्रकाशा
कुण्ठामकरोत्तमाम् ॥ २९१॥ ततोऽर्णवात्समुत्तीर्णस्तूर्णमेष विशेषवित् । प्रतस्थे कुरुचन्द्रेण परीतः स्वपुरी प्रति ॥२९॥ |पुरीपरिसरे प्राप प्रयाणैस्त्वरितैरयम् । समं समस्तसामन्तैर्भूभर्ताऽपि तमभ्यगात् ॥ २९३ ॥ दूरादपि निजं सूनुं निभाल्य सुभगं दृशोः। उल्लासमासदद्भूपः पूर्णेन्दुमिव वारिधिः॥२९४ ॥ कुमारोऽपि तमालोक्य तमानन्दमविन्दत । विवेद सर्ववेदीयं स्वसंवेदनमेव वा ॥ २९५ ॥ स ननाम क्रमाम्भोज विनयावनतः पितुः। पिताऽपि गाढमालिङ्गय चुम्वति स्म शिरस्यमुम् ॥ २९६ ॥ उच्छलत्स्वच्छवात्सल्यो विदधे वसुधेश्वरः। जनुमहमिवातुच्छमङ्गजस्यागमोत्सवम् ॥२९७ ॥ अमानगायनस्तोमगीयमानगुणावलिम् । अहो ! सौभाग्यमस्येति स्तूयमानं पुरीजनैः ॥ २९८ ॥ अमन्दवाद्यनिर्घोषमुखरीकृतदिग्मुखम् । पुरःपरिस्फुरन्नैकनटीपेटकनाटकम् ॥ २९९ ॥ गंजेन्द्रस्कन्धमध्यास्य धारितातपवारणम् । प्रावीविशद्विशामीशः
कुमारं मन्दिरं मुदा ॥ ३०० ॥ त्रिभिर्विशेषकम् ॥ अगण्यपुण्यलावण्यावज्ञातत्रिदिवाङ्गनाः। परिणिन्ये स राजन्यकन्याः है स्वजनकाज्ञया ॥ ३०१॥ अन्यदा क्षणदाशेषे विशेषज्ञेषु शेखरः। वसुधाधिपतिर्दृधा प्रबुद्धो ध्यातवानिति ॥ ३०२॥
राज्यर्द्धिर्भुज्यमानेयं पूर्वपुण्यैरुपार्जिता । दीपश्रीरिव तैलानि तानि निष्ठापयत्यलम् ॥ ३०३ ॥ निष्ठां न यावदायान्ति तावदेतानि सत्वरम् । नूतनानि विधातु मे साम्प्रतं साम्प्रतं पुनः॥३०४ ॥ अपि सर्वकलोपेतं पुण्यहीनं हि जन्मिनम् ।। निद्रव्यं पण्ययोषेव लक्ष्मीस्त्यजति दूरतः॥३०५॥ पुण्यैरेव प्ररोहन्ति संपदः सर्वतोऽङ्गिनाम् । वीरुधोऽन्तर्धरं धाराधरैरभिनवैरिव ॥ ३०६ ॥ परे भवे भवेज्जीवः सुखी पुण्येन नापरैः। नहि तत्रानुगच्छन्ति जीवं पुण्यमिवापरे ॥३०७॥ कुमारस्यापि साम्राज्यभारोद्धारे धुरीणता । तदस्मै राज्यमुत्सृज्य प्रव्रज्या युज्यते मम ॥३०८॥ इति ध्यानानुबन्धेन
॥७०॥