________________
दुष्प्रापं प्राप्य मानुष्यं धर्मः सम्यग् विधीयताम् । यतः स एव सर्वासां प्रतिभूः सुखसंपदाम् ॥ ४२१ ॥ सम्यग् ज्ञान क्रियारूपः स च सिद्धिनिबन्धनम् । यदुपेयस्य सम्पत्तिः शुद्धोपायं विना नहि ॥ ४२२ ॥ तत्रापि ज्ञानमेवाहुः प्रधानं सिद्धिसाधनम् । सम्यग्ज्ञानाविनाभावि साफल्यं यत्क्रियास्वपि ॥ ४२३ ॥ अतः सुखैषिणाऽऽराध्यं सम्यग्ज्ञानं मनीषिणा । दानाध्ययनसान्निध्यबहुमानाद्युपायतः ॥ ४२४ ॥ यः सम्यग्ज्ञानमन्यस्मै दत्ते चित्तेन निर्मलः । स्वस्मै तस्मै च सोऽविघ्नं ददौ केवलसंविदम् ॥ ४२५ ॥ महाम्भोधिमिवागाधं गाहते यो जिनागमम् । पुरुषोत्तमतां प्राप्य स वृणोत्यद्भुतां रमाम् ॥ ४२६ ॥ पुस्तकान्नवसत्यादिदानेन ज्ञानिनां सुधीः । सान्निध्यं विदधत् स्वस्य तनोत्यासन्न सिद्धिताम् ॥ ४२७ ॥ ज्ञाने ज्ञानिषु चामानं संमानं वितनोति यः । भवे भवेऽद्भुता ज्ञानलक्ष्मीस्तं वृणुते स्वयम् ॥ ४२८ ॥
इति धर्मगुरोर्वाणी पुण्यकाननसारणिः । ज्ञानभक्तिलतां तस्य हृदि पल्लवितां व्यधात् ॥ ४२९ ॥ अथायं कारयामास पुस्तिकाः स्वस्तिकाम्यया । प्रदीपिका इव स्वस्य मुक्तिवर्त्मप्रकाशने ॥ ४३० ॥ ज्ञानिनामेषणीयान्नभैषज्योपाश्रयाद्ययम् । ददौ ज्ञानमुपादातुं सत्यंकारमिव स्वयम् ॥ ४३१ ॥ अन्येद्युरनुजोऽवादीज्ज्ञानभक्ता तमुद्यतम् । जीवनस्य धनस्यैवं किं विधत्से मुधा व्ययम् ॥ ४३२ ॥ दत्ते चित्तेप्सितं ज्ञानमाराद्धं नहि नाकिवत् । न देशं नापि सीमानं प्रसन्न इव भूपतिः ॥ ४३३ ॥ मोदकेनेव न क्वापि तृप्तिर्ज्ञानेन जायते । न शीतलजलेनेव पिपासाऽप्युपशाम्यति ॥ ४३४ ॥ न सुवर्ण न दुर्वर्ण न रलं नापि गोधनम् । ज्ञानस्याराधनं दत्ते वाणिज्यमिव देहिनाम् ॥ ४३५ ॥ प्रकृत्यैव सरस्वत्याः सापत्न्यं श्रयते रमा । अतः स्वस्य सुखान्वेषी सेवते कः सरस्वतीम् ॥ ४३६ ॥ ततो धूर्तेन मूर्तेन दम्भेनेव प्रलम्भितः । वृथा कदर्थय