SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे सत्वरम् ।नही द्वितीयः प्रकाश। ॥३७॥ मगुरम् । मिनामाचख्यपन | विरक्तिलंधक पराकटतस्याः ला तमुपाद से मनांसि च ॥६००॥ भग्नान्यनांसि वान्योन्यमास्फल्यास्फल्य सत्वरम् । न हानि तनुते का कामजितेन्द्रियता नृणाम् ? ॥ ६०१॥ संभूयाथ विलक्षास्ते तयोराख्यामचिख्यपन् । असावशकटैतस्याः पिता त्वशकटापिता ॥६०२॥ एवं चालोक्य |वैराग्यं तस्याऽभवदभङ्गरम् । मितेनापि निमित्तेन विरक्तिलेघुकर्मणाम् ॥ ६०३ ॥ ततो दत्ते स्म कस्मैचिदयं वित्तान्वितां सुताम् । स्वयं च क्वचनातुच्छे गच्छे व्रतमुपाददे ॥ ६०४॥ स चाभियोगवान् योगवावहिः केशसासहिः । अध्यगीष्ट |श्रुतं यावदुत्तराध्ययनत्रयम् ॥ ६०५॥ उद्दिष्टेऽध्ययने तुर्ये प्राच्यं तस्योदियाय तत् । ज्ञानावज्ञाभवं कर्म न हि शक्यस्तदत्ययः॥६०६॥ ततो दिनद्वयं तस्य पठतोऽप्यभियोगतः । आचाम्लकारिणो नैकमपि तस्थौ पदं हृदि ॥ ६०७॥ गुरवस्तं जगुर्वत्स ! यावन्नेदमधीयते । न स्यात्तावदनुज्ञाऽस्य योगस्त्वाचाम्लरूपकः ॥६०८॥ एवमस्तु ममापीति प्रतिपद्य स उद्यतः। तस्याद्यं पद्यमध्येतुमारब्धाचाम्लकर्मठः॥६०९॥ दिवानिशमविश्रान्तमुच्चै?षं जुघोष च । नास्थात्तु पदमप्यस्य हृदि पारदवत्करे ॥ ६१० ॥ घोषं तस्य मुहुः श्रुत्वा सम्यगायाततत्पदाः । भूयांसोऽपि लघीयांसो जहसुस्तमनेकधा ॥ ६११॥ भृशं विस्मृतिशीलश्च स्मारितोऽपि मुहुर्मुहुः । पदं मिथ्योच्चरमाणः स गुरूनुदवीविजत् ॥ ६१२ ॥ अन्वशात्तं गुरुवर्णविपर्यासादिदूषितम् । पुनः पुनरधीयानो वत्साशातयसि श्रुतम् ॥ ६१३ ॥ न्यूनाधिकविपर्यस्तवर्णोच्चारा|दिना श्रुतम् । आशातयन्नवाप्नोति प्रत्यवायाननेकशः॥ ६१४ ॥ अतस्त्यक्त्वा श्रुताधीति तत्त्वभूतं जिनागमे । वत्स!! मा रुष्य मा तुष्य पदद्वयमिदं पठेः ॥ ६१५॥ ततस्तद्वयमेवैष सविशेषमघोषयत् । विनीतानां यतः सर्वा गुर्वायत्ताः प्रवृत्तयः॥ ६१६ ॥ वर्ण नूनं तदप्येष जुघोष प्राकृतं मुहुः । ततश्च तं जना मासतुसेत्यभिधमभ्यधुः ॥ ६१७ ॥ नार्थ
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy