________________
तस्त वथा चक्रे पदे द्वे अपि जातु सः। यतः स्तुत्युपहासाभ्यां न तुतोष रुरोष न ॥६१८॥ इत्याचाम्लतपस्तीनं तप्यमानस्य | तस्य तत । कर्म द्वादशवत्सर्या विशीर्ण जीर्णरजुवत् ॥ ६१९ ॥ ततः सोऽध्ययनं तुर्यमध्यगीष्ट विशिष्टधीः । क्रमेण च समग्रेऽपि श्रुते पारीणतां दधौ ॥ ६२० ॥ घातिकर्मक्षये जाते केवलज्ञानमाप्य सः । जगाम कर्मनिर्मुक्तः क्रमेण | परमां गतिम् ॥ ६२१ ॥ अतः सुधीरधीयीतोपधानेन जिनागमम् । अस्मिन् भवे परस्मिंश्च सुलभोऽयं भवेद्यथा ॥ ६२२ ॥ उपधानम् ॥ ४॥
तथा न निह्नवं कुर्याद्वरोरात्तश्रुतः सुधीः । यत्सकाशे यदध्यैष्ट तत्राचष्टे तमेव हि ॥ ६२३ ॥ आख्यानेऽन्यस्य कालुष्यं निजचित्तस्य जायते । सिद्धाऽपि यत्नतो विद्या भवेत्फलवती न च ॥ ६२४ ॥
पुरे स्तम्भपुरे कोऽपि क्षुरभाण्डेन चण्डिलः। प्रसिद्धतां दधौ विद्याबलादम्बरलम्बिना ॥ ६२५ ॥ तस्माद्विधिवदाराद्धाद्विद्यामम्बरलम्बिनीम् । परिव्राट् कोऽपि जग्राह नीचाग्राह्या कला न किम् ॥ ६२६ ॥ ततश्चम्पापुरी प्राप्तो वियमण्डलमण्डनम् । त्रिदण्डं स्वं स तन्वानः पूज्यते स्म महाजनैः ॥ ६२७ ॥ ख्यातिमाकर्ण्य राज्ञाऽपि बहुमानादमानि सः। पृष्टश्च ते तपःशक्तिर्विद्याशक्तिरुतेदृशी ॥ ६२८ ॥ सोऽप्यजल्पन्महीपाल ! विद्याशक्तिरियं मम।नृपोऽप्यूचे गुरुस्तर्हि कस्ते कुत्रास्ति ? चोच्यताम् ॥ ६२९ ॥ त्रपया निढुवानस्तं स दाण्डाजिनिको गुरुम् । कपोलकल्पनां कृत्वा प्रत्यजल्पन्महीपतिम् ॥ ६३०॥ हिमालयमहातीर्थवासिनः सुतपस्विनः । विमुक्तिदेवपादा मे विद्याया गुरवोऽभवन् ॥ ६३१ ॥ गुर्वपह्नवपापेन कुपिता देवता ततः। क्षितौ खडखडत्तस्य द्राक् त्रिदण्डमपातयत् ॥ ६३२ ॥ तादृशं तस्य