________________
दानप्रदीपे
॥ ३८ ॥
G
पापं च जुघोष व्योमभाषया । तच्चाकर्ण्य नरेन्द्राद्या निनिन्दुस्तं त्रिदण्डिनम् ॥ ६३३ ॥ अतो न धीमता कार्यः सर्वथा गुर्वपह्नवः । वाञ्छयते यदि विद्यायाः फलं लोकद्वये शुभम् ॥ ६३४ ॥ अनिह्नवः ॥ ५ ॥
व्यञ्जनाभयैः शुद्धं तथाऽधीते सुधीः श्रुतम् । यदशुद्धमधीयानस्तदाशातयति ध्रुवम् ॥ ६३५ ॥ तत्रोक्तं व्यञ्जनं वर्णस्तेन न्यूनाधिकं पठन् । लोकद्वयेऽप्यवाप्नोति प्रत्यवायानसंशयम् ॥ ६३६ ॥ भिद्यते वर्णभेदेऽर्थस्तद्भेदे च क्रियाभिदा । तद्भिदायामभीष्टार्थनाशोऽनर्थश्च निश्चितम् ॥ ६३७ ॥
वर्णाधिक्ये कथा तत्र कुणालस्य निशम्यताम् । अत्रैव भरतक्षेत्रे पाडलीपुरपत्तनम् || ६३८ || मौर्यवंशाम्बुधाविन्दुबिन्दुसारनृपाङ्गभूः । अशोकश्रीनृपस्तत्र पवित्रचरितोऽभवत् ॥ ६३९ ॥ कुणालस्तस्य कस्याश्चित्प्रेयस्यास्तनुभूरभूत् । बाल्येऽप्यस्मै नृपः स्नेहाद्ददावुज्जयिनीं पुरीम् ॥ ६४० ॥ नृपादिष्टैर्भटैस्तस्यां पाल्यमानः स जीववत् । जज्ञेऽष्टवर्षदेश्यस्ते तं च राज्ञे व्यजिज्ञपन् ॥ ६४१ ॥ दध्यौ भूपः कुमारोऽयमध्यापयितुमर्हति । कुमाराः शैशवाभ्यस्तकला हि कुलमण्डनम् ॥ ६४२ ॥ ' अधीय' कुमारोऽयमिति प्राकृतभाषया । लेखं सुखावबोधार्थं लिलेखाथ स्वयं नृपः ॥ ६४३ ॥ तस्मिन्नमुद्रिते राजा देहचिन्तार्थमुत्थितः । विमाता च कुमारस्य तत्रस्था तमवाचयत् ॥ ६४४ ॥ व्यमृशच्च कुमारेऽस्मिन् सर्वराजगुणाश्रये । अव्यङ्गे न हि मे राज्यवार्ताऽपि तनुजन्मनः ॥ ६४५ ॥ ततस्तत्कालधीर्बिन्दुमकारे तत्र सा ददौ । निधानं कूटबुद्धीनां हृदयं हि मृगीदृशाम् ॥ ६४६ ॥ नरेन्द्रोऽपि प्रमादेनाप्रतिवाचितमेव तम् । अमुद्रयत्स्वहस्ते नोज्जयिन्यां प्रजिघाय च ॥ ६४७ ॥ पितृवर्गाङ्कितं लेखं कुमारः प्रेक्ष्य हर्षितः । द्वाभ्यामादाय पाणिभ्यां न्यधत्त निजमूर्द्धनि ॥ ६४८ ॥
द्वितीयः प्रकाशः ।
1132 11