________________
वाल्याच्च वाचयामास पार्श्वस्थसचिवेन तम् । सचिवस्तु भृशं भेजे वाचयित्वा विषण्णताम् ॥ ६४९ ॥ तस्मिन्नविमि श्राक्षे लेखार्थं वक्तुमक्षमे । कुमारस्तत्करालेखं प्रसह्य खयमाददे || ६५० ॥ स्वयं च वाचयामास चिन्तयामास चाशये । 'अंधीयड' कुमारोयमित्यक्षर निरीक्षणात् ॥ ६५१ ॥ मया दुर्विनयः कोऽपि नूनमज्ञेन निर्ममे । मदन्धीकरणे लेखं प्रैषीद्वेपीव यत्पिता ॥ ६५२ ॥ मौर्यान्वये न गुर्वाज्ञालोपकः कोप्यभूत्पुरा । तल्लोपाध्याधुनाऽन्येषां तन्मा भून्मत्प्रवर्तितः ॥ ६५३ ॥ | इत्यामृश्य परीवारवार्यमाणोऽपि धैर्यवान् । नयने स्वयमानञ्ज स तप्तायः शलाकया । ६५४ ॥ अशोकस्तं तथाऽऽकर्ण्य | शोकमस्तोकमाश्रितः । धिक्कूटलेखकोऽस्मीति निनिन्द स्वं मुहुर्मुहुः ॥ ६५५ ॥ दुर्दैवाधिष्ठितो नूनमभाग्यग्रामणीरहम् । जज्ञे यन्मे प्रमादेन कुमारस्येदृशी दशा ॥ ६५६ ॥ यौवराज्यं वितीर्यास्मै दास्ये साम्राज्यमप्यहम् । अयं मनोरथो मेऽद्य मनस्येव व्यलीयत ॥ ६५७ ॥ ततस्तस्मै ददौ भूपः समृद्धमपरं पुरम् । तत्सापत्नकुमाराय पुरीमुज्जयिनीं पुनः ॥ ६५८ ॥ कुणालोऽमंस्तदुर्मातुस्तदकृत्यं कुतश्चन । चिरं तिष्ठत्यनाम्राणं विष्ठा दुश्चेष्टितं च न ॥ ६५९ ॥ भुञ्जानस्य पुरं तस्यापरेद्युहृद्यलक्षणः । पुत्रः पवित्रयन् गोत्रं जातः पत्न्यां शरश्रियाम् ॥ ६६० ॥ वर्द्धापिनकृते दास्यै कुणालः पारितोषिकम् । वितीर्य बहुधा चक्रे पुत्रजन्ममहोत्सवम् ॥ ६६१ ॥ विमातुर्निर्ममे तस्या वृथैवाद्य मनोरथम् । इत्ययं पाटलीपुत्रं प्रययौ राज्यलिप्सया ॥ ६६२ ॥ वशीकुर्वन्नपूर्वेण गान्धर्वेण पुरीजनम् । तत्रायं स्वैरचारेण चचारान्तश्चतुष्पथम् ॥ ६६३ ॥ अगायद्यत्र यत्रायं वाग्माधुर्यातितुम्बरुः । सरङ्गास्तत्र तत्रागुः कुरङ्गा इव नागराः ॥ ६६४ ॥ तथाssकर्ण्य तमाकार्य गताक्ष इति संसदि । जवन्यन्तरितं कृत्वा गातुं नृपतिरादिशत् ॥ ६६५ ॥ यथास्थानाहितैर्मन्द्रमध्यतारैः स्वरैरयम् । षड्जा