________________
जाह्नवीतीरवास्तव्यौ सोदरौ पुण्यसादरौ । क्वाप्यतुच्छे व्रतं गच्छे स्वच्छेनाश्रयतां हृदा ॥ ५८४ ॥ ग्रहणासेवनाशिक्षे मङ्ख मुख्यमुमुक्षवः । शैक्षौ तौ शिक्षयामासुः श्रेयान सर्वो हि शिक्षितः ॥ ५८५ ॥ पटुप्रज्ञः क्रमेणाद्यः श्रुतपारीणतां श्रितः । आचार्यपदवी प्राप पदं विद्या हि संपदाम् ॥ ५८६॥ स्वल्पमेव श्रुतं भेजे द्वितीयः पुनरल्पधीः । सरस्वत्यपि लक्ष्मीवत्कर्मान्वेति पुराकृतम् ॥ ५८७ ॥ स ददानः श्रुतं सूरिविनेयेभ्यः कदापि न । लेभे विश्राममर्थिभ्यो भुक्ति दाता यथाऽवमे ॥ ५८८ ॥ सूत्रार्थचिन्तनप्रश्नादिभिः शिष्यविनिर्मितैः । निशायां शायिकाऽप्यस्य नाजायत सुखाकरी ॥ ५८९ ॥ भ्राता तस्य पुनः स्वैरं स्वैरङ्गैरतिमांसलः । सुखं भुते सुखं शेते सुखं चास्ते स्म सन्ततम् ॥ ५९० ॥ तं च पश्यन्नयं सूरिर्दध्यौ सद्धयौचितीवियुक् । अयं मे बान्धवो धन्यः सुखी योऽस्ति दिवानिशम् ॥ ५९१॥ अजाकृपाणकल्पेन विज्ञानेनामुनान्वहम् । नीतोऽस्मि कीदृशीं दुःखदशां पशुरिवान्दुना ॥ ५९२ ॥ ज्ञानप्रद्वेषवानेष उद्विग्नो वाचनादितः । स्वाध्यायेऽपि विनेयानामस्वाध्यायिकमादधे ॥ ५९३ ॥ ज्ञानमाशातयन्नेवं ज्ञानघ्नं कर्म दुर्मतिः । अयं बबन्ध दुष्कर्म प्रमत्तः किं करोति न? ॥ ५९४ ॥ ज्ञानातीचारमित्येनमनालोच्य विपद्य च । स्थिरश्चारित्रधर्मेऽसौ सौधर्मेऽभूत्सुधाशनः ॥ ५९५ ॥ ततोऽयमजनि ग्रामे क्वचिदाभीरनन्दनः। कन्या तेनानुरूपा च यौवने पर्यणीयत ॥ ५९६ ॥ अभूदर्थानुरूपाहा सुरूपा तस्य कन्यका । स्मरमत्तद्विपक्रीडावनं यौवनमाप च ॥ ५९७ ॥ सारथ्याय रथस्याग्रे तां निवेश्य विशारदाम् । पुरं प्रति प्रतस्थेऽयं घृतं विक्रेतुमन्यदा ॥ ५९८ ॥ चेलुस्तेन समं लुब्धास्तस्या रूपनिरूपणे । घृतविक्रयदम्भेन परेऽप्याभीरदारकाः ॥ ५९९ ॥ तामग्रेतनगन्त्रीस्थामेकाग्रं पथि पश्यताम् । प्रवृत्तान्युत्पथे तेषामनांसि च