SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मा स्म कृथा वन्यप्रसूनमिव यौवनम् ॥ २६३ ॥ इति तद्वाक्यमाकर्ण्य कर्णयोः क्रकचोपमम् । दुःखातेयमुपालब्धदैवं पर्यवलोचना ॥ २६४ ॥रे! पूर्व ते मया दैव ! किमपराधि दुधिया । ददासि निर्दयं यन्मे व्यसनं व्यसनोपरि ॥ २६५ ॥ प्रथमं किल यस्याहं प्राणेभ्योऽपि प्रियाऽभवम् । मरणं जीवितेशस्य तस्य शस्यगुणाम्बुधेः॥ २६६ ॥ द्वितीयं सर्वसौख्याजङ्गप्राज्यतो राज्यतश्च्युतिः। तृतीयं ज्ञातिवर्गेण वियोगो युगपन्मम ॥२६७॥ तुरीयं निःशरण्यायाः शून्येऽरण्ये परिभ्रमः । | पञ्चमं चास्य पापस्य पिशाचस्याचटं शये ॥२६८ ॥ किमन्यद्वाऽधिकं भावि व्यसनं यन्ममाङ्कतः। पातनं पुत्ररत्नस्य यमस्येवानने वने ॥ २६९ ॥ दत्त्वापीदृक्षदुःखानि धातर्धाणोऽसि नाधम ! ? । यन्मे प्राणप्रियं शीलं साम्प्रतं ही जिहीजापसि ॥ २७० ॥ सत्यं परस्य सर्वस्यापहारे त्वमभूः प्रभुः । ज्ञास्यते त्वधुना शीलविनाशे तव कौशलम् ॥ २७१ ॥ धृष्ट ! | त्वमपि रे चित्त ! वज्रेण किमसृजथाः। यतो विदीर्यसे नाशु वैशसं पश्यदीदृशम् ॥ २७२ ॥ इत्यार्तिसजुषोऽमुष्या दुःखावर्तः स कोऽप्यभूत् । प्राणा दृष्टेव यं भीता हृद्विदार्य विनिर्ययुः ॥ २७३ ॥ शीलानुभावतः सा च बभूव व्यन्तरी सुरी । विभूतेः प्रतिभूः कस्या न स्यादमलशीलता ॥ २७४ ॥ जन्मन्यवेतिनी पूर्वेऽवधिज्ञानेन सा वने । सुतं वातच्युतं जम्बूफलमश्नन्तमैक्षत ॥ २७५॥ ततो गोरूपमाकल्प्य प्रेमगर्भ तमर्भकम् । अपीप्यत्सा पयः सर्वोपद्रवेभ्योऽप्यपीपलत ॥ २७६ ॥ अन्येद्युः प्रियमित्राख्यस्तत्र श्वेतबिकापुरः। सार्थवाहः समायासीत्तस्य पुण्यैरिवेरितः ॥ २७७ ॥ तमद्राक्षीच्च वृक्षाधः शुभलक्षणलक्षितम् । अमंस्ताद्भुतभाग्यं च तरुच्छायास्थिरत्वतः ॥ २७८ ॥ ततो रत्नमिवादाय सार्थवाहस्तमकम् । रहोवृत्त्याऽनपत्यायाः स्वप्रियायाः समार्पयत् ॥ २७९ ॥ भार्याया गूढगर्भायास्तनयोऽद्य ममाजनि । इति ज्ञापयता
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy