________________
I
क्षणे । निजं किञ्चन वैदुष्यं प्रत्यक्षं प्रेक्षयामि वः ॥ १९६ ॥ तस्योक्तमाशु तेनाऽपि विज्ञप्तः पल्लिनायकः । शङ्खमाकार्य कार्यज्ञमभ्यधत्त ससंभ्रमम् ॥ १९७ ॥ कलासु कौशलं विज्ञ ! तवाकृत्यैव कीर्त्यते । दीप्तिरेवाह बाहीकी महिमानं मणेर्न किम् ॥ १९८ ॥ प्रगुणीकुरु मे सूनुं न्यूनं किञ्चिन्न ते तथा । यदत्र मृग्यते मार्गमदभोगादि तद्वद ॥ १९९ ॥ अथाभाषत शङ्खस्तं संभ्रमेणामुना सृतम् । बाह्योपकरणापेक्षा दोषस्यामुष्य न क्षये ॥ २०० ॥ इत्युक्त्वा स नमस्कारमपारमहिमार्णविम् । परावर्तयितुं सम्यक् प्रावर्तत पवित्रधीः ॥ २०१ ॥ नासाग्रजाग्रदति मन्थरतारदृष्टिर्नाभिस्थपद्म रममाणमनोमरालः । प्रत्यक्षरक्षरद पारसुधाप्रवाहण्यालुप्ततत्तदुरुदोषविषातिवेगः ॥ २०२ ॥ योगीव यावदभयं त्रिरयं जजाप दीप्रप्रतापमपपापममुं महात्मा । कृत्वा विरावमुरुभीविवशः पिशाचस्तावन्ननाश शशनाशमतो दुराशः ॥ २०३ ॥ युग्मम् ॥ स्वस्थीभूतस| मस्ताङ्गस्तन्मुक्तः पल्लिराजसूः । पुनर्जात इवाराजद्राजेव तमसोज्झितः ॥ २०४ ॥ तं तथा वीक्ष्य हर्षाश्रुपल्वलायितलोचनः । जगाद मेघनादस्तं श्रेष्ठिसूनुमन्नमुद् ॥ २०५ ॥ अहो ! ते शक्तिरुन्मुक्ततुलना भुवनाद्भुता । अहो ! परोपकारैकफला ते | सकलाकला ॥ २०६ ॥ चरित्रेण पवित्रेण दत्तचित्रेण तेऽमुना । कुरङ्ग इव गीतेन काममाक्रामि मे मनः ॥ २०७ ॥ प्रार्थयस्व तवाभीष्टमर्थ संपादयामि कम् । शङ्खोऽपि तमभाषिष्ट सुष्ठु तुष्टोऽसि मे यदि ॥ २०८ ॥ तदिमान् जीवितं दत्त्वा संमान्य स्वजनानिव । वैदेशिकान् दशाप्येतान् गृहान् प्रति विसर्जय ॥ २०९ ॥ ओमिति प्रतिपेदानः पल्लीन्द्रः शम्बलादिना । | सत्कृत्य कृत्यवेदी तान् विससर्ज स्वबन्धुवत् ॥ २१० ॥ शङ्खं चात्यर्थमभ्यर्थ्य पृथुप्रथितगौरवः । स स्वसद्मनि निश्छद्मा दिनान् कत्यप्यतिष्ठिपत् ॥ २११ ॥ स्फीतायामन्यदा प्रीतौ श्रेष्ठिसूस्तमुपादिशत् । प्राणिघातः किमापातः पातकानां