SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥५२॥ प्रतन्यते ॥२१२॥ निस्तूंशैरात्तनिस्त्रिंशेरशस्त्रागतमन्तवः । निःशरण्यानि हन्यन्ते ही महापापमशिनः ॥ २१३ ॥ तृतीयः विदन् कण्टकवेधेऽपि दुःखं दुःसहमात्मनः । प्राणिनां वधमाधत्ते कः सुधीनिशितायुधैः ॥ २१४ ॥ दीर्घायुर्वपुरारोग्यं प्रकाश। सौभाग्यं विश्वमान्यता । राजन्निदं फलं सर्वमहिंसाया महीतले ॥२१५ ॥ भूतानां भयभीतानामभयं यः प्रयच्छति । अकुतोभयतामेष भजत्यभयसिंहवत् ॥ २१६ ॥ को भद्राभयसिंहोऽयमिति पल्लीभुजोदितः । श्रेष्ठिपुत्रः पुरस्तस्य कथ-13 यामास तत्कथाम् ॥२१७ ॥ __ अत्रैव भरते रम्यारामे ग्रामे कुशस्थले । नामोक्त्या च प्रकृत्या च भद्रकः कुलपुत्रकः ॥२१८॥ नृणां काले सदुष्काले कराले भुवि सर्पति । निर्वेदमेदुरोऽन्येधुरन्नाभावादचिन्तयत् ॥ २१९ ॥ वृत्तिं कुर्वे कुरङ्गादीन् निहन्यारण्यवासिनः। धर्मबाहीकचित्तानां न हि मार्गानुगा मतिः॥ २२०॥ ततो मुद्गरमादाय वनं प्राप स पापधीः । शशकं प्रति निःशवं निःशूकस्तं मुमोच च ॥२२१॥ दृष्ट्वा शशस्तमायान्तं मृत्युभीतः पलायत । मुद्गरं पृष्ठतश्चास्य चिक्षेप स पुनः पुनः॥२२२॥ अनन्यशरणस्थानः शशो नश्यन्नितस्ततः। प्रतिमास्थयतीन्द्रस्य चरणान्तन्येलीयत ॥ २२३ ॥ अत्रान्तरे पुरः साधोस्तपोमाहात्म्यरञ्जिता । स्फटिकाइममयीं भित्तिं वितेने वनदेवता ॥२२४ ॥ तन्मुक्तो मुद्गरस्तस्यामास्फल्य विनिवृत्त्य च । भद्रस्य सहसा भालस्थले वज्र इवास्फलत् ॥ २२५ ॥ तद्धातव्यथितो रक्तभरै रक्तः स सर्वतः। पपात मूर्छितःक्ष्मायां वाताहत ॥५२॥ इव दुमः ॥ २२६ ॥ शीतेन वन्यवातेन सुहृदेवोपसेवितः । भद्रः प्रोन्निद्रचैतन्यः पश्यति स्म यतिं पुरः॥ २२७ ॥ दध्यौ च श्रमणं शान्तं पश्यन्नस्यदसन्मतिः । हहा! दुष्कर्म मे जज्ञे जन्मन्यत्रैव दुःखदम् ॥ २२८ ॥ यद्वा मे विद्यतेऽद्यापि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy