________________
दानप्रदीपे
तृतीयः प्रकाशः।
॥५१॥
हर्षेण स्वीचक्रे तद्वचस्तथा । सचेतनः परेणोक्तं न कः स्वीकुरुते हितम् ॥१७९ ॥ एवं पुण्यमयालापयाप्ययानोपविष्टयोः। प्रथीयानप्ययं पन्थाः सुखोलव-यस्तयोरभूत् ॥१८८ ॥ अथ बन्धुमिवाभीष्टं शङ्खमाभाष्य हर्षतः । सुमेधः स्वाघघातार्थी प्रापदास्पदमीप्सितम् ॥१८१॥ अनारतं नमस्कारं स्मरन्निजपुरं प्रति। शङ्खः केनापि सार्थेन समं प्रास्थित सुस्थितः॥१८२॥ कुण्डलीकृतकोदण्डाः प्रचण्डाः क्वाप्यरण्यके । केऽपि भिल्लभटाः प्रेतपतेरिव पदातयः॥१८३॥ भोः! भोः! गृहीत गृहीत यान्ति यान्तीति वादिनः। श्येनप्रपातमापेतुस्तं च सार्थममन्दिषुः ॥१८४ ॥ युग्मम् ॥ सहान्यैर्नवभिः पान्थैः क्रौञ्चबन्धं निबध्य तम् । पल्यामानीय पापास्ते पल्लीशाय समार्पयन् ॥ १८५ ॥ जगाद मेघनादस्तान् पल्लीशोऽमी सुरक्षिताः। क्रियतां लभ्यते यावदीहगेकादशो नरः॥१८६ ॥ यतो भूताभिभूतस्य ज्येष्ठसूनोरनामये । प्रपेदे चण्डिकादेव्या एकादशनरो बलिः॥१८७॥ ततो गाढं न्यरौत्सुस्तांस्ते पशुनिव सौनिकाः । अन्येद्युः पुनरानिन्ये भिल्लैरेकादशः पुमान् ॥१८८॥ अथ ते स्नपिताः श्वेतवासांसि परिधापिताः । नीतास्तैश्चण्डिकावासं यमावासमिवापरम् ॥ १८९॥ अरे ! कुरुत यत्कृत्यं स्मर्सव्यं स्मरत द्रुतम् । चण्डिकायै बलिं कुर्वे सर्वेषामपि वस्तनूः ॥ १९०॥ इत्युक्त्वा हन्तुकामस्तान् कृपाणं पाणिनाऽकृपः । पल्लीन्द्र आददे तावद्भुत्येनागत्य पूत्कृतम् ॥ १९१ ॥ हा धाव धाव भूतेनात्यर्थ ते व्यथ्यते सुतः । मुक्त्वा तानथ भूनाथः पुत्रोपान्तमगाद्रुतम् ॥ १९२ ॥ नृपेण कारितैरास्ता तैस्तैस्तस्यौषधैर्गुणः । ववृधे प्रत्युत व्याधिरुषर्बुध इवेन्धनैः
१९३ ॥ कारं कारं प्रतीकारं निर्विण्णस्यावनीभुजः। किं भविष्यत्तया चिन्ताकान्तं स्वान्तमजायत ॥ १९४ ॥ अथ पञ्चनमस्कारमाहात्म्यमसमं स्मरन् । प्रधानपुरुषं शङ्खस्तत्राभाषत कञ्चन ॥ १९५॥ दयतां राजसूनुर्मे यथा तद्दोषमो