________________
जज्ञे मान्या जनस्य च ॥ २५५ ॥ यस्तथा निरतीचारां व्रतपञ्चतयीमिमाम् । सम्यक् पालयति त्यक्त्वा प्रमादं दूरतोऽखिलम् ॥ २५६ ॥ स्वहितैकरुचिः शस्यः कस्य न स्यादिहापि सः। परत्रासंख्यसौख्यं च मोक्षमक्षयमनुते ॥ २५७॥ यथा च रोहिणी बुद्धिरोहिणी शालिवर्धनात् । सर्वस्वस्वामितां प्राप्ता प्रतिष्ठामाप लव्यपि ॥२५८॥ तथा पञ्चव्रतीमेतां प्रयतः पालयन् स्वयम् । योऽधीतसर्वसिद्धान्तः प्रापयत्यपरानपि ॥ २५९ ॥ स गौतम इव प्राप्तः सर्वसङ्घप्रधानताम् । परां है संपदमाप्नोति स्वान्ययोरुपकारिणीम् ॥ २६०॥ तन्वा तीर्थोन्नतिं कृत्वा कुतीर्थिकतिरस्कृतिम् । जगत्पूज्यक्रमाम्भोजः क्रमाच्च लभते शिवम् ॥२६१॥अतस्त्वया परां स्फाति नेया पञ्चमहाव्रती।रोहिणीव यथा सद्यः परमां प्रौढिमभुषे॥२६२॥
इति तद्वाक्यपीयूषपाणप्रीणितमानसः। प्रयतः पालयामास संयम विजयो मुनिः॥ २६३ ॥ विनयेन स सिद्धान्तमध्यैष्ट गुरुसन्निधौ । यतः सम्यगनुष्ठानं सम्यग्ज्ञानवशंवदम् ॥ २६४ ॥ क्रमेण योग्यतां ज्ञात्वा न्यास्थत्तं स्वपदे गुरुः। नयन्ति गुरवो योग्यं महतीमुन्नतिं यतः॥ २६५ ॥ गुरुरन्वशिषत्तं च गौतमाद्यैरधिष्ठितम् । सिद्धिसौधप्रतिष्ठानं सर्वप्रछमिदं पदम् ॥२६६ ॥ ततः प्रमादमुत्सृज्य शिष्याणां सारणादिना । वाचनादिविधी वत्स! विधेयः सर्वदोद्यमः॥२६॥ सुखशीलतया स्वल्पमपि मा खेदमुबह । एवमेवर्णमोक्षस्ते शासने च महोन्नतिः॥ २६८॥ ततः सम्मेतशैलेन्द्रमधिरुह्य समाहितः । मासानशननिःश्रेण्या सिद्धिसौधमगाद्गुरुः ॥ २६९ ॥ अथो विजयसूरीन्द्रो निस्तन्द्रो वाचनादिषु । पुनानः पृथिवीं प्राप परमामुन्नतिं क्रमात् ॥ २७॥ अहंप्रथमिकापूर्वमपूर्वश्रुतमिच्छवः । विनेयाः परिवन्नुस्तं दातारमिव मार्गणाः ॥ २७१॥ प्रतीच्छका अपि श्रोतुमस्य पार्श्वमुपैयरुः । रत्नाकरे समासन्ने रत्नान्यादित्सते न कः॥ २७२ ॥ ददानो वाच