________________
नाजिहेरपि किं यतीन् ॥ १५७ ॥ यद्येतेभ्योऽपि विश्वकवन्येभ्यो न प्रदीयते । दुर्विदग्ध ! तदा कस्मै परस्मै दास्यते वद ॥ १५८ ॥ एतेषु दीयमानं हि धनं सर्वातिशायिने । फलाय जायते बीजं क्षेत्रेषु प्रवरेष्विव ॥ १५९ ॥ एवं निवार्य वादात्तं न तु दुष्परिणामतः । सद्यः स पात्रमादाय श्रमणान्तिकमागमत् ॥ १६० ॥ अन्तर्मुदमिवामातीं बहिष्प्रसृमरां वहन् । सर्वाङ्गसङ्गिनी हर्षरोमहर्षावलिच्छलात् ॥ १६१ ॥ स्वचित्तमिव निष्पकं पाणी पात्रं विधाय सः। मार्गयन्निव पुण्यानि विनयात्तान् व्यजिज्ञपत् ॥ १६२ ॥ युग्मम् ॥ मयि प्रसादमाधाय प्रासुकं गृह्यतामिदम् । तेऽप्युपाददिरे सम्यक शुद्धतामवबुध्य तत् ॥१६३॥ गच्छतस्तांश्च सप्ताष्टपदानि समुदाऽन्वगात् । दृढीकर्तुमिवामीभि मेयं पात्रसंपदोः॥१६॥ भक्त्या मुनीश्वरान् सम्यगनुगम्य गृहागतः। विशुद्धया धिया दध्यौ सूरः संमदपूरतः॥ १६५॥ अद्य मन्येऽहमात्मानमग्रण्यं पुण्यशालिनाम् । मुनयः स्वपदन्यासैर्यत्पुनन्ति स्म मे गृहम् ॥ १६६ ॥ कृतार्थाः संपदो मेऽद्य सफलं चाद्य जीवितम् । मुनीनामुपकाराय यन्मे पात्रमजायत ॥ १६७ ॥ इति प्रसृतयाऽजस्रमनुमोदननीकया । अपिस्फवदयं पात्रदानपुण्यदुमं निजम् ॥ १६८ ॥ स विपद्यानवद्येन विधिना विशदाशयः । जज्ञे धनपतिः श्रेष्ठी प्रष्ठः शिष्टात्मनामयम् ॥१६९॥ साधुभ्यः श्रद्धया यत्प्रागयं पात्रमदान्मुदा । तेनाभूत् स्वर्णकुम्भादिविभूतीनां विभुः स्वयम् ॥ १७० ॥ यत्सौभाग्यमभङ्गरं यदसमं साम्राज्यमूर्जस्वलं यन्माहात्म्यमनश्वरं प्रसृमरा यत्कीर्तिरात्यन्तिकी । यदीर्घायुरदूष्यसौख्यसुभगं यत्संपदो नापदः सोऽयं पात्रसुदत्तवित्तमहिमा निर्दम्भमुज्जम्भते ॥ १७१ ॥ संक्लिष्टाध्यवसायेन संचितामितदुष्कृतः। जज्ञे विपद्य धीरस्तुत दरिद्रः स धनावहः॥ १७२॥ पात्रे दानमयं पूर्व दुर्बुद्धिनिषिषेध यत् । तेन दुर्गतता तस्य यावज्जीवमजायत ॥ १७३ ॥