________________
दानप्रदीपे
॥१७७॥
एकादशः प्रकाशा
गुणलक्ष्मीमृगाक्षीणां भूषणायेव यावकः॥ १४०॥ धीरस्तु निजदुष्कर्मपरिपाकातिरेकतः। क्रमेलक इव द्राक्षारामे धर्मे पराङ्मुखः ॥ १४१॥ तयोरासन्नवासेन मिथः प्रीतिरजायत । प्रकृतौ त्वन्तरं भूरि कादम्बबकयोरिव ॥ १४२॥ सदने|ऽन्येद्यराद्यस्य तत्पुण्येनेव नोदिताः। शैक्षस्य पात्रभिक्षायै भिक्षवः समुपागमन् ॥ १४३॥ अथाभ्युत्तस्थिवांस्तेषामेष हर्षविशेषतः। आगन्तूनामगण्यानां पुण्यानामिव पुण्यधीः ॥ १४४ ॥ भक्त्या प्रणतपूर्वी तान् स ऊचे रचिताअलिः । अहो ! मध्यपि पूज्यानां प्रसादविशदं मनः॥ १४५ ॥ समृद्धान्यपि सौधानि विहाय व्यवहारिणाम् । अतर्कितमनाहूता यदागमत मद्गृहम् ॥ १४६॥ समता भवतां तत्रभवतां भुवनाद्भुता । समृद्धे दुर्विधे वा यद्भवन्तस्तुल्यवृत्तयः ॥ १४७ ॥ इदं प्रासुकमन्नाद्य प्रसद्य मयि गृह्यताम् । येन वा भवतामथेः प्रार्थयध्वं तदाशु माम् ॥१४८॥ इति निर्णिक्तभक्त्या तं वदन्तं यतयो जगुः । वयं शैक्षस्य पात्रार्थमागमाम गृहं तव ॥ १४९ ॥ अथायं मुदितः सद्यः सदनान्त:स्थितं क्वचित् । प्रासुकं पात्रमादाय यावदायाति दायकः॥ १५०॥ वयस्यस्तावदायासीत्तस्य वेश्म स्वकार्यतः । इमं पात्रं प्रयच्छन्तमवगम्य जगाद च ॥ १५१॥ ईदृशं मित्र ! किं पात्र नेत्रप्रीतिविधायकम् । ऋते वेतनमेतेभ्यो व्रतिभ्यो वितितीर्षसि ॥ १५२ ॥ शौचाचारपराञ्चोऽमी परवञ्चनचञ्चवः । उचिता नहि दानस्य निकृत्येकनिकेतनम् ॥ १५३ ॥ किञ्च विक्रीतमेतत्ते भवेल्लाभाय भूरये । तदेतेभ्यः प्रदानेन मा स्म निर्जीगमो मुधा ॥१५४ ॥ इत्थं तद्वाक्यमाकर्ण्य कर्णयोः क्रकचोपमम् । सूरो रुष्टमनाः स्पष्टं तमभाषिष्ट निष्ठुरम् ॥ १५५ ॥ हा मूढ ! किमिदं निन्द्यमवादि वचनं त्वया । विदधीत सुधीनिन्दाममीषां कस्तपस्विनाम् ॥ १५६ ॥ निवृत्तान् सर्वपापेभ्यः प्रवृत्तान् पुण्यकर्मसु । गर्हमाणोऽहणायोग्यान्
॥१७७॥