________________
दानप्रदीपे
सप्तमः प्रकाशः।
॥१०५॥
कृतसर्वदिक् ॥ १८७ ॥ निजविद्यानुभावेन सद्यो विद्याधरेश्वरः । शुशुभे भुवि निवृत्तनिवास इव वासवः ॥ १८८ ॥ षद्भिः कुलकम् ॥ प्रबुद्धाऽथ प्रियात्मानं सारशृङ्गारभासुरम् । तथास्थितं च तं कान्तं वीक्ष्य वीक्ष्य विसिष्मिये ॥१८९ ॥ इन्द्रजालमिदं किन्तु किमुतायं मतिभ्रंमः । स्वमवृत्तिरिय किं वा दैवती वाऽऽकृतिः किमु ॥ १९० ॥ इत्यन्तर्विस्मयारेकावितर्काकुलितां प्रियाम् । ज्ञापयामास स व्यक्तं वृत्तान्तं निजमादितः ॥ १९१ ॥ प्रस्तुतार्थपरीक्षायाः सिद्धावपि तवाप्तितः । विलम्बोऽयं मया देवि ! विदधे त्वां परीक्षितुम् ॥ १९२ ॥ अहो ! ते सत्यमत्युग्रमहो! ते सत्त्वमद्भुतम् । अहो! & ते निश्चलं शीलमहो! ते निर्मला मतिः॥ १९३ ॥ तदिदं फलितं देवि! सद्य एव तवाखिलम् । यत्त्वं प्राणेश्वरी जाता
धुना विद्याधरेशितुः ॥ १९४ ॥ प्रसत्तिर्मम सर्वत्र जागर्ति जगतीतले । अयं विलयमायातु पितुस्तव दुराशयः ॥ १९५ ॥ धर्म एव समग्राणां कार्मणं शर्मसंपदाम् । इति चेतसि सर्वोऽपि निश्चिनोतु जनस्तथा ॥ १९६ ॥ इति देवि! मया दिव्यप्रासादाद्यमिदं मुदा । सद्यो विद्याप्रसादेन समपाद्यत देववत् ॥ १९७ ॥ इत्युक्ता तेन सा तस्य पश्यन्ती ऋद्धिमद्भुताम् । प्रभातप्रभया सार्धमुल्ललास मुदा तदा ॥ १९८ ॥ पश्यन्तु प्रकटं लोकाः पुण्यप्रौढिमिमां तयोः। इतीव जनयामास प्र. काशं परितो रविः ॥१९९ ॥ स्वर्विमानमिवोत्तीर्णमथ सौधमवेक्षितम् । मन्त्रेणेवाहृताः पौराः परितः परिवत्रिरे ॥ २०० ॥ अहो! धर्मस्य माहात्म्यमिति सांराविणं नृणाम् । आकण्य ज्ञातवृत्तान्तस्तत्र भूपतिरागतः ॥ २०१॥ प्रतोलीरत्नपाञ्चालीरचिताचमनक्रमः । तत्तद्वारप्रतीहारज्ञापितारोहपद्धतिः॥२०२ ॥ सर्व प्रासादसौन्दर्य विलोकितुमिवाक्रमम् । रत्नभित्तिषु सान्त्या निर्मितानेकरूपकः॥२०३ ॥ नानावितर्कसंपर्कव्याकुलीकृतमानसः । स कैलासमिवावासमारोह महो
॥१०५॥