SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ नतम् ॥ २०४ ॥ त्रिभिर्विशेषकम् ॥ तदैव तत्र वादित्रमुखरीकृतदिग्मुखः । समं चमूसमूहेन तन्मन्त्री नभसाऽगमत् ॥ २०५ ॥ धीसखः खेचराश्चान्ये प्रणम्य स्वामिनं निजम् । उपासामासुरानन्दात्रिदशा इव वासवम् ॥ २०६ ॥ जामातरमथालोक्य तथास्थं विस्मयाकुले । श्वशुरे सुस्वरेणोच्चैरुच्चैरे तत्र वन्दिना ॥ २०७ ॥ वैताढ्यस्वामिताढ्योऽयं पुण्यैरेव | पचेलिमैः । नृपः श्रीकनकरथः प्राप्यते दुहितुः पतिः || २०८ ॥ अथाभ्युत्थाय जामाता दुहिताऽपि ननाम तम् । समं तमनमसोऽपि समयज्ञा हि पण्डिताः ॥ २०९ ॥ धारणीप्रमुखास्तत्र हर्षोत्कर्षादुपागमन् । न्यवीविशञ्च सर्वांस्तान् खेचरेशो यथाक्रमम् ॥ २१० ॥ अथासनमलङ्कृत्य लज्जमानः स्वमानसे । महीपतिः सुतां स्माह कृत्वा स्वोत्सङ्गसङ्गताम् ॥ २११ ॥ क्षमस्व धर्मसम्यग्ज्ञे ! वत्से ! दुश्चेष्टितं मम । प्रभावं तव पुण्यानां नाज्ञासिषममूदृशम् ॥ २१२ ॥ नोपादेयं हि तत्कस्य पथ्यं तथ्यं वचस्तव । परं दर्पवशादेव तदवाजगणं तदा ॥ २१३ ॥ स्वपुण्यमहिमैवाद्य न परं ज्ञापितस्त्वया । फलोपदर्शनेनाहं सम्यग्धर्ममपि स्फुटम् ॥ २१४ ॥ भाग्यं कः स्तोतुमीशस्ते यतः प्रस्तरहेतवे । निजो हस्तस्त्वया न्यस्तः प्राप्तश्चिन्तामणिः पुनः ॥ २१५ ॥ इदं ते सत्यनिष्ठत्वमियं ते धर्मवैदुषी । इदं च साहसिक्यं ते त्रैलोक्येऽपि तुलातिगम् ॥ २१६ ॥ कमलेव तनूजा त्वं विश्वश्लाघ्यगुणावलिः । कुलालङ्करणी जाता मत्तः क्षारार्णवादिव ॥ २१७ ॥ साम्प्रतं भवती वत्से ! | सकलेषु विवेकिषु । परां कोटिमटीकिष्ट निर्विवेकेष्वहं पुनः ॥ २१८ ॥ त्वया प्रद्योतितो धर्मस्त्वया प्रद्योतितं कुलम् । ततो मन्यामहे धन्या त्वमेवैका महीतले ॥ २१९ ॥ अथ सा कथयामास पितरं विनयान्विता । मा वृथा वितथाः खेदं नेदं हि विहितं त्वया ॥ २२० ॥ किन्तु संपन्नमापन्नविपाकान्मम कर्मणः । यतस्तदेव जन्तूनां प्रतिभूः संपदापदाम् ॥२२९॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy