SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे सप्तमः प्रकाशः। ॥१०६॥ कर्मादिस्थितयो ये न ज्ञायन्ते तत्त्वतोऽखिलाः । तात! सद्यः प्रपद्यस्व सम्यग्धर्म तमाहतम् ॥ २२२ ॥ इत्याकर्ण्य नृपः प्रीतः सम्यग्धर्म प्रपन्नवान् । जामातरं तनूजां च गजेन्द्रमधिरोपितौ ॥ २२३ ॥ निजमावासमाकार्य प्राज्योत्सवपुरस्सरम् । सच्चके चारुनेपथ्याऽलङ्कारादिप्रदानतः॥ २२४ ॥ युग्मम् । यथा यथा तयोः कीर्तिः परिस्फूर्तिमुपेयुषी । जिनधर्मप्रभा लोके स्फायते स्म तथा तथा ॥ २२५ ॥ अथ विद्याधरस्वामी श्वशुरेण वधूवृतः । भोजितः सपरीवारः प्रतस्थे स्वपुरं हप्रति ॥ २२६ ॥ असौ स्वपुरमासाद्य नानावाद्यस्वनैर्दिशः। निखिला मुखरीकुर्वश्चतुरङ्गचमूवृतः ॥ २२७ ॥ द्विगुणीभूत सौभाग्यां सारशृङ्गारसङ्गतः। सुखासने समासीनां कमलामपरामिव ॥ २२८ ॥ अतुल्यशीलनैर्मल्यजितयेव धुकुल्यया। चारुचामरधोरण्या सेव्यमानां समन्ततः॥२२९ ॥ दर्शयन्निव लोकानां धर्मकल्पद्रुमञ्जरीम् । शुद्धान्तालङ्कतीचक्रे प्रियां मदनमञ्जरीम् ॥ २३०॥ चतुर्भिः कलापकम् ॥ स तस्यै गुण शस्यायै पट्टराज्ञीपदं ददौ । पत्यौ हि फलति प्रीतिः कल्प वल्लीव योषिताम् ॥ २३१ ॥ दृष्ट्वा धर्मस्य माहात्म्यं तौ चित्तं तत्र तेनतुः । किमु प्रत्ययितोपाये मन्दायन्ते हितेच्छवः 8॥ २३२ ॥ अयं विद्यानुभावेन नानातीर्थान्यवन्दत । कला हि सफला सैव या धर्मस्योपयोगिनी ॥ २३३ ॥ अन्यदा |नन्दनोद्याने जिनचैत्यानि वन्दितुम् । सप्रेयसी ययौ विद्याधरेन्द्रः सपरिच्छदः ॥२३४ ॥ चारणश्रमणं तत्र पवित्रज्ञान शालिनम् । प्रणम्य पुरतस्तस्य पत्तिवन्निषसाद सः॥ २३५॥ अथ धर्माशिषानन्द्य फलाफलिकयेव तम् । देशनावाकसुधाभोज्यैः प्राज्यैर्मुनिरबूभुजत् ॥ २३६ ॥ तथाहिधर्मः स्वर्गापवर्गादिसंपद्यः स्पृहयालुना । विधेयः सुधिया यस्मान्तासां सैवनिबन्धनम् ॥ २३७ ॥ दानशीलतपोभाव | ॥१०६॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy