________________
|भेदादेष चतुर्विधः। जगदे श्रीजिनेन्द्रेण दान तत्रादिम पुनः॥ २३८॥ तद्भेदेष्वप्यनेकेषु पात्रदानमनुत्तरम् । नियक्तं वि-1 |धिवत्पात्रे यदनन्तगुणं धनम् ॥ २३९॥ अहो ! धनः सार्थवाहः पात्रदानोपढौकिताः । तीर्थंकृत्त्वाऽवधीः प्राप समृद्धी रधिकाधिकाः ॥ २४०॥प्रमातुं महिमानं कः पात्रदानधुशाखिनः। संपदः शालिभद्रीया यदीयाः कुसुमश्रियः ॥ २४१॥ भवनं जिनराजानां प्रतिमाः पुस्तकस्तथा । संघश्चतुर्विधश्चेति पात्रं सप्तविधं विदुः॥ २४२ ॥ दानमण्वपि यःपात्रे दत्ते तस्याक्षयाः श्रियः । निषिध्यति कुधीर्यस्तु दूरतस्तं त्यजन्ति ताः॥ २४३॥ . | अत्रार्थे कथ्यते तथ्या कथा भद्रातिभद्रयोः । तथाहि जम्बूद्वीपेऽत्र क्षेत्रं भरतसंज्ञितम् ॥ २४४ ॥ तत्रावनिवधूमाल्यं काम्पील्यपुरमित्यभूत्। तर्जतीव दिवं स्वां यत्सौधाग्रचलद्ध्वजैः॥२४५॥ प्रभाववैभवं तस्य वास्तवं स्तवयन्तु के यत्रावतारमातेने विमलः श्रीजिनः स्वयम् ॥२४६॥ तत्रामात्रश्रियां पात्रं जितशत्रुर्महीपतिः। न जातु व्यर्थयामास संग्रामे निजनाम यः ॥ २४७ ॥ मान्यस्तस्याऽभवत्तत्र वसन्तश्रेष्ठिसत्तमः । वसन्त इव यः पुण्यवल्लीपल्लवने बभौ ॥ २४८ ॥ सुदर्शनेन रोचिष्णोः पुरुषोत्तमताजुषः। कमला दयिता तस्य नामतो गुणतोऽपि च ॥ २४९॥ जैनधर्मस्तयोश्चित्तं राजधानी व्यधान्निजाम् ॥ न शेके तदपाकर्तुमतो दुस्तर्कतस्करैः ॥ २५० ॥ तयोः परस्परात्यन्तस्फीतप्रीतिपुरस्सराः । धर्मार्थकामविवशा दिवसा बहुशोऽप्यगुः ॥ २५१ ॥ अन्यदा वन्यदावार्चिष्प्रख्या सौख्यानि घातिनी । सुताभावकृता चिन्ता तच्चेतः समतीतपत् ॥ २५२ ॥ दारियं जनकस्य नापनयते व्याधीन विध्वंसते नैकान्तेन हितो भवेदिह भवे नो सद्गुणश्चाङ्गजः। जन्तूनां गतयः स्वकर्मजनिता भिन्नाः परस्मिन् पुनः पुत्रार्तिस्तुदते तदप्यसुमतो ही मोहविस्फूर्जितम् ॥२५३॥ पुंसां पुण्य