SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः। दानप्रदीपे धनः सर्वनिःस्वप्रष्ठः क्वचित्पुरे । तस्य रूपवती कन्या नामतोऽप्यर्थतोऽपि च ॥ ५३५ ॥ पितुःस्वादिना स्वान्तकान्त कान्तमनाप्नुषी । ख्याता वृद्धकुमारी सा तमाप्तुं स्मरमार्चयत् ॥ ५३६ ॥ चौर्येण क्वचिदाराम कुर्वाणां कुसुमोच्चयम् । ॥३५॥ तामुपद्रोतुमारेभे रागादारामिकोऽन्यदा ॥ ५३७ ॥ सा जगौ मा कुमारी मां विनाशय महाशय ! । सोऽप्यवोचत मुञ्चे त्वां तदा सुन्दरि ! सम्प्रति ॥ ५३८ ॥ यदि व्यूढा सती भोगान् प्रियेणाभुक्तपूर्विणी । सकृन्मे पार्श्वमायासि नान्यथा तु कथश्चन ॥ ५३९ ॥ ओमित्युक्तवती तेन मुक्का सा स्वपदं ययौ । उपयेमेऽनुरूपश्चान्येास्तां कश्चिदिभ्यसूः ॥५४॥ |निशि सा स्फारशृङ्गारा वासवेश्म समीयुषी । पत्युः सत्यप्रतिज्ञा सा स्वप्रतिज्ञातमाख्यत ॥ ५४१॥ विचार्य वाचि नैश्चल्यं तस्याः सोऽपि चमत्कृतः। व्यसृजत्तां तमारामं प्रति साऽप्यचलत्तदा ॥ ५४२ ॥ गृहीता पथि सा चौरैर्यथास्थं तानचीकथत् । विस्मितास्तेऽप्यमुञ्चस्तां स्वीकार्य पुनरागमम् ॥ ५४३ ॥ षण्मासी क्षुधितश्चाने राक्षसस्तामवैक्षत । मुक्ता तथैव तेनापि निर्विघ्नं प्राप मालिकम् ॥ ५४४ ॥ तां बभाण ससंभ्रान्तः सुभगे! कथमागमः । साऽप्यजल्पदुपेताऽस्मि प्रतिज्ञापाशसंयता ॥ ५४५ ॥ विस्मितः स पुनःप्रोचे प्रियेणामुच्यथाः कथम् । ततस्तदादिवृत्तान्तं साद्यन्तं तस्य साऽवददत् ॥ ५४६ ॥ योषाऽप्येषा प्रतिज्ञायामहो ! कीदृग् दृढव्रता । स्ववचःपालनायैवं या दुःसाधमसाधयत् ॥ ५४७ ॥ शक्ति मद्भिरपीयद्भिर्मुमुचेऽसौ कथं त्वहम् । अस्यै दुह्याम्यगायै वर्यायै निर्मलैर्गुणैः ॥ ५४८ ॥ इति तच्चरितेनान्तर्मालि-1 |कोऽपि चमत्कृतः। भगिनीमिव संमान्य व्यसृजत्तां गृहं प्रति ॥ ५४९ ॥ रजनीचरचौराभ्यामपि त्यक्ता तथैव सा । निजमावासमायासीद्वहिरन्तरविप्लता ॥ ५५० ॥ प्रियोऽपि तच्चरित्रेण चित्रीयितमना भृशम् । तां गृहस्वामिनी चक्रे गुणे ॥३५॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy