________________
कस्य हि नादरः १ ॥ ५५१ ॥ अहो सभासदो ! युष्मानहं पृच्छामि कथ्यताम् । भर्त्रादिषु चतुर्व्वेषु चक्रे केनात्र दुष्करम् ? ।। ५५२ ॥ आख्यनीयलवो भर्त्रा क्षुधार्त्तास्तु नृचक्षसा । कामुकास्तु मालिकेन स मातङ्गस्तु दस्युना ॥ ५५३ ॥ ततोऽवगत्य तं चौरमार्पयद्भूभुजेऽभयः । पृष्टश्चौरोऽपि भूपेन यथास्थितमवोचत ।। ५५४ ॥ राजाऽऽह चेदिमे विद्ये दत्से तर्हि तवाभयम् । ददामीत्युदिते तेन नृपोऽध्येतुमढौकत ॥ ५५५ ॥ पठिताऽपि मुहुर्विद्या नैकाऽप्यस्य हृदि स्थिता । विलक्षः क्ष्माभृदाख्यत्तं विद्या किं मे न तिष्ठति १ ।। ५५६ ॥ मातङ्गोऽपि जगौ राजन्नधीषे विनयं विना । उच्चासननिषण्णस्त्वमहं भूमीतले पुनः ॥ ५५७ ॥ अथोत्तीर्यासनाद्राज्ञस्तत्र चारोप्य तं मुदा । पठतस्ते उभे विद्ये हृद्यस्थातां सपद्यपि ॥ ५५८ ॥ अतो ब्रूमः समग्राणां विद्यानां विनयः पदम् । तत्पूर्वकमधीता हि सिद्धिं यान्त्यचिरेण ताः ॥ ५५९ ॥ विनयः ॥ २ ॥
बहुमानस्तथा कार्यो गृह्णानेन श्रुतं गुरोः । स चान्तरो बुधैर्भावप्रतिबन्धोऽभिधीयते ॥ ५६० ॥ गृहीतं बहुमानेन गुरोरन्तिषदां श्रुतम् । उत्तरोत्तरमुत्कृष्टां विधत्ते फलसम्पदम् ॥ ५६१ ॥ विनये बहुमाने च चतुर्भङ्गीति गीयते । कापि द्वौ कापि चैकैकः काऽपि द्वावपि नैव तौ ॥ ५६२ ॥ विनयो निष्फलः प्रायो बहुमानं विना पुनः । अन्तरङ्गो विधि|र्यस्माद्वलीयान् बहिरङ्गतः ॥ ५६३ ॥
श्रूयतां ज्ञातत्रार्थे क्वापि पर्वतकन्दरे । यक्षमूर्तिः शिवेत्याख्या ख्याता साऽतिशयत्वतः ॥ ५६४ ॥ तां द्विजन्मा | पुलिन्दश्च सपर्यामासतुः सदा । विनयं बहुमानस्य तानवेऽपि व्यधाद्विजः ॥ ५६५ ॥ शुचिश्वीरे शरीरे च संस्नाप्य स्वच्छवारिणा । प्रपूज्य प्राज्यपुष्पैश्च स स्तवैरस्तवीन्नवैः ॥ ५६६ ॥ पुलिन्दः पुनरुन्निन्द्रः सम्यग्भावेन तं शिवम् । प्रातः