________________
दानप्रदीपे
॥ १४७ ॥
च स्वर्णदीनारशतं दत्ते दिने दिने । अभ्यर्च्य याचिता कन्था यथा कल्पद्रुमञ्जरी ॥ ३१५ ॥ तदा भूपाङ्गभूस्ता भिस्तिसृभिः शुशुभेतमाम् । साम्राज्यहेतुभूताभिर्मूर्त्ताभिरिव शक्तिभिः ॥ ३१६ ॥ कुलपत्युपरोधेन दिनान् कतिपयानयम् । तत्राश्रमे स्थितोऽन्येद्युरन्तः स्वान्तमचिन्तयत् ॥ ३१७ ॥ अहो ! कर्मविपाकस्य काऽप्यपूर्वा विचित्रता । क्वापि संपद्यते संपदापत् क्वापि च मे यतः ॥ ३१८ ॥ द्वितीया मे प्रिया क्वापि पापिना तेन मन्त्रिणा । गृहीता ज्ञायते नैव जीवन्ती यदि वा मृता ॥ ३१९ ॥ नैमित्तिकेन जीवन्ती प्रोचे प्राच्यप्रिया तु मे । अतस्तामधुना लब्धुं युक्तः कर्त्तुमुपक्रमः ॥ ३२० ॥ अयं ततस्तपस्वीशमनुज्ञाप्य प्रियान्वितः । कन्यामादाय खद्वायामारुरोह नृपात्मजः ॥ ३२१ ॥ स्थाने धनवती यस्मिन् व्रज तस्मिन्नितीरिता । खट्वा सा कुसुमपुरोद्यानं सद्यः समासदत् ॥ ३२२ ॥ अत्रान्तरे रूपवती पीड्यते स्म पिपासया । ततः स वियतः खद्वां जगतीमुदतीतरत् ॥ ३२३ ॥ कन्थाखद्वान्वितां कान्तां स निवेश्य तरोस्तले । कूपमाप समीपस्थ - |मानेतुं जलमञ्जसा ॥ ३२४ ॥ स यावज्जलमादत्ते तावत्कूपान्तरस्थितः । तं सखायमिवाचख्यौ फणी मानुषभाषया ॥ ३२५ ॥ करुणां प्रगुणां कृत्वा सखे ! मां कृष कूपतः । महात्मानो यतः क्वापि नोपकारपराङ्मुखाः ॥ ३२६ ॥ तं तथा वाक्यमा लोक्य विस्मयस्मेरमानसः । कुमारः कृपया क्रष्टुमुत्तरीयममुञ्चत || ३२७ ॥ तदालम्व्याविलम्बेन ततस्तत्पार्श्वमागतः । ददंश दन्दशूकस्तमनुरूपं हि तस्य तत् ॥ ३२८ ॥ तद्विषस्यानुषङ्गेण कुमारः कुब्जतां ययौ । संश्लेषेण प्रदोषस्य सङ्कोचमिव पङ्कजम् ॥ ३२९ ॥ स्वं रूपं वीक्ष्य तादृक्षं सविलक्षस्तमाख्यत । सर्प ! मामुपचक्राणं सुन्दरं प्रत्युपाकृथाः ॥ ३३० ॥ ततो जजल्प सर्पस्तं सखे ! मा खेदमुद्वह । आपन्नेनापदं स्मार्यस्त्वयाऽहं निजमित्रवत् ॥ ३३१ ॥ तदा प्रत्युपकारं ते
नवमः प्रकाशः।
॥ १४७ ॥