________________
ॐॐ--
"छेओ भेओ वसणं आयासकिलेसभयविवागो अ । मरणं धम्मभंसो अरई अस्थाउ सबाई ॥१॥” इति ॥
अत्रार्थे श्रूयतां सभ्याश्चतुर्मित्रीनिदर्शनम् । वसन्तपुरवास्तव्या बाल्यादप्याप्तसौहृदाः ॥ ३४२॥ चत्वारो भूधवामात्यदमहेभ्यारक्षसूनवः । सममाम्नातिनोऽभूवन कलासु सकलास्वपि ॥ ३४३ ॥ युग्मम् ॥ आक्रीडादौ सह क्रीडां कुर्वाणाः
सर्वदाऽप्यमी । तरङ्गिताङ्गलावण्यं तारुण्यं भेजिरे क्रमात् ॥३४४॥ मिथो विमृश्य तेऽन्येधुः कौतुकालोककाम्यया । चेलु
र्देशान्तरे कूपभेका हि न विवेकिनः ॥ ३४५ ॥ अथापरे त्रयः प्रोचुर्भक्त्या नृपतिनन्दनम् । देव ! स्वामी त्वस्माकं वयं ट्रच तव सेवकाः॥ ३४६ ॥ भुक्तियुक्तिं ततो वित्तैर्वयं स्वस्वकलार्जितैः। वारकेण करिष्यामस्तत्र निश्चिन्तताऽस्तु ते
॥ ३४७ ॥ रक्षणीयः प्रभु त्यैस्तदायत्ता हि ते ध्रुवम् । स्थिरा भवन्त्यरा नैव तुम्बे जर्जरतां श्रिते ॥ ३४८॥ अथ ते दिवसे प्राच्ये सायं ग्रामे क्वचिद्गताः । कश्चित्तत्राभ्यवस्कन्दस्तदा च द्रुतमापतत् ॥ ३४९ ॥ तमारक्षात्मजो रक्षादक्षो विशिखवर्षणैः । द्रुतं विद्रावयामास केशरीव मृगब्रजम् ॥ ३५० ॥ ततः प्रमुदिता लोका अस्तोकादरतः प्रगे । तत्र तान् भोजयामासुः कलायाः क्व न मान्यता ॥ ३५१॥ पुरतः प्रस्थितास्तेऽथ प्रापुः क्षेमपुरं पुरम् । तदन्तर्भुक्तिचिन्तायै जगाम च महेभ्यसूः॥ ३५२॥ वित्तेनात्तेन कस्यापि न्यासीकृत्य स्वमुद्रिकाम् । वणिज्याकुशलस्तत्र चक्रे स क्रयविक्रयम् ॥३५॥ दीनाराणामदीनोऽयं सार्द्धयामवणिज्यया । लेभे पञ्चशती लाभे वाणिज्यं हि सुरदुमः ॥ ३५४ ॥ शस्याहारैर्वयस्यादीलाभेनायमभोजयत् । निजां च प्रतिजग्राह मूलद्रव्येण मुद्रिकाम् ॥ ३५५ ॥ अथ मन्त्रिभुवो वारे ते काम्पील्यपुरं ययुः। मन्त्रिभूस्तत्र चाश्रौषीत्पटहं श्रीपथे गतः। ३५६ ॥ अपृच्छच्च नरं कञ्चित्कैषा पटहघोषणा । सोऽप्यूचेऽत्र पुरे सार्थपति
SAA%D1%
-
C4%AM