SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ रत्नपालमुन्मूल्य मूलतः । इमां कन्यां ग्रहीष्यामो माणी रोरगृहादिव ॥ १०३॥ एवं विमृश्य सैन्यं स्वं त्रिंशदक्षोहिणि. प्रमम् । संमील्य समरोद्युक्तास्ते कुमारमतर्जेयन् ॥ १०४॥ वरमालामरे बाल ! रनपाल ! परित्यज । इयं न वेसिन कालरूपेण परिणस्यते ॥१०५॥ गुणागुणपरिज्ञानशून्यया कन्ययाऽनया । ववृषे तन्मुधा मा भूगर्वेणोद्धरकन्धरः॥१०६॥ & अस्मत्पार्थस्थितां चैतां स्वीकर्तुं तव का स्पृहा । कः कण्ठीरवकण्ठस्थां सटामादातुमीहते ॥ १०७ ॥ वरमालां ततो मुश्च नो चेत्ते नालवद्गलः । अनेन करवालेन छेत्स्यते सममेतया ॥ १०८॥ इति तैस्तर्जितो रत्नपालः स्मित्वा ललाप तान् । तया चेन्न वृतास्तहि मह्यं कुप्यथ किं वृथा ॥ १०९॥ येन दौर्भाग्यदग्धाङ्गा विदवे यूयमीदृशाः। किन कुप्यत धातारं तमेव प्रति सम्प्रति ॥११०॥परस्त्रीकामनापाप्ममलिनीभवदात्मनाम् । युष्माकं शुद्धये तीर्थमसिधारैव मेऽधुना ॥११॥ इत्युक्त्वा सोऽपि युद्धाय संनद्धस्तत्क्षणादभूत् । न्यकारं नहि मृष्यन्ति क्षत्रियाः पात्रमोजसाम् ॥ ११२ ॥ जामातुः ४ पक्षमाश्रित्य वीरसेनोऽपि भूपतिः। चतुरङ्गं चमूचक्रं चक्रे प्रगुणमहावे ॥ ११३ ॥ अत्र चावसरे पौराः पत्तयश्च परस्प रम् । वितेनुरिति संलापान वृन्दीभूय पदे पदे ॥११४ ॥ हर्षस्थाने विषादो हा ! भोजनाचक्षणे क्षुतम् । अभून्माङ्गल्यवेलायां लकुटालकुटि स्फुटम् ॥ ११५॥ पाणिग्रहणलग्नेऽस्या विश्वसंहारकारणम् । यदयं समरारम्भ आकस्मिक उपस्थितः॥११६ ॥ कीदृशी हा दुरन्ताऽस्यां विधातुःप्रतिकूलता। यदीदृशि प्रमोदेऽभूदसमञ्जसमीदृशम् ॥ ११७ ॥ हेतुभवन्ती संग्रामे जगतीक्षयकारिणि । इयं राज्ञः कुले कन्या कालरात्रिरिवाभवत् ॥ ११८ ॥ इत्याकये गिरस्तेषां कर्णयोः क्रकचोपमाः। विज्ञा भृशं विषण्णात्मा दध्यौ शृङ्गारसुन्दरी ॥११९ ॥ धिगस्तु मामपुण्यानामग्रण्यं यन्निमित्तका
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy