________________
दानप्रदीपे
॥११७॥
अपारप्राणिसंहारहेतुरारभ्यते रणः ॥ १२० ॥ एकजीववधे हेतुर्जन्तुर्नरकमश्रुते । इयद्वधनिमित्तं तु गतिं गन्ताऽस्मि कामहम् ॥ १२१ ॥ निन्दन्ति युक्तमेवामी मां जनाः सत्यवादिनः । यदद्यापारपापानां जायमानास्मि कारणम् ॥ १२२ ॥ इति चिन्तैकतानायास्तस्याः शस्योललास धीः । इष्टकार्यानुरूपा हि स्त्रीणां तात्कालिकी मतिः ॥ १२३ ॥ यथाऽवसरकृत्याय सुबुद्धिं बुद्धिशेवधिम् । मन्त्रिणं ज्ञापयामास रत्नपालं च सा रहः ॥ १२४ ॥ अथाभ्यधत्त सा हस्तमुद्रित्य नृपतीन् प्रति । स्वस्थीभवत भो भूपाः ! क्षणं शृणुत मद्भिरम् ॥ १२५ ॥ अकाण्डे किमयं प्राणिक्षयः प्रारभ्यते मुधा । यतः पाणौ करिष्यामि नाहं कश्चन पूरुषम् ॥ १२६ ॥ मह्यं हि युद्धमारेभे विश्वप्रलयकारणम् । तन्ममास्तु कथंकारमुचितं पाणिपीडनम् ॥ १२७ ॥ ततो देहमसन्देहमिमं पाप्मनिबन्धनम् | चितायां ज्वलनज्वालाचितायां भस्मतां नये ॥ १२८ ॥ इति तान् श्रावयन्ती सा कारयामास दारुभिः । मत्र्यादिष्टैश्चितां भृत्यैर्धीरगाधा हि योषिताम् ॥ १२९ ॥ ततः सा स्नानमाधाय कृतदेवार्चनादिका । नृपाणां पश्यतां तेषां चितान्तिकमुपागमत् ॥ १३० ॥ अथ मन्त्री नृपानूचे यश्चितामतिसाहसी । प्रवेक्ष्यत्यनया साकं परिणेष्यत्यमूं हि सः ॥ १३१ ॥ इत्युक्तास्ते मिथो वक्रव्यावलोकीं प्रचक्रिरे । दहनान्तः प्रवेशे हि नहि सांशयिकी मृतिः ॥ १३२ ॥ किं कर्तव्यतया मूढाः सवैलक्ष्या अवाङ्मुखाः । प्रतिवक्तुमशक्तास्ते पुनरौ - च्यन्त मन्त्रिणा ॥ १३३ ॥ दिवसत्रयमामृश्यं विधातव्यं यथोचितम् । ततो निजनिजावासं नृपाः प्रापुः सकौ तुकाः ॥ १३४ ॥ सा तु श्वेतवती तीरे पुरासन्ने चितान्तिके । तस्थौ त्रिरात्रमायन्तः प्रवेशे कृतनिश्चया ॥ १३५ ॥ अथ तुर्यदिने मन्त्री कौतुकाक्षिप्तचेतसः । नृपानुपागतांस्तत्र तथैवाकथयन् पुनः ॥ १३६ ॥ तेऽप्याच्छुरितकं कृत्वा प्रत्यवो -
अष्टमः प्रकाशः ।
॥११७॥