SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ युग्मम् ॥ इति त्रिधा विशुद्ध स्यादानमासन्नसिद्धिके । मञ्जरी सहकारे हि जायते फलसंनिधौ ॥३६॥ एषा मोक्षफले दाने पात्रापात्रपरीक्षणा । अनुकम्पादिदानं तु सर्वत्राप्युचितं सताम् ॥ ३७॥ वितरति विधिनाऽमुनाऽशनं यः शुभपात्राय पवित्रचित्तवृत्तिः। कलयति सकलाः श्रियः स सद्यः कनकरथः स यथा नभश्चरेन्द्रः॥ ३८॥ तथाहि___ अस्ति रक्षनिकेतान्यो वैताब्यो नाम पर्वतः । शृङ्गारयति शृङ्गाणि यस्यार्हच्चैत्यसन्ततिः॥ ३९॥ भरतावनिभामिन्या नानारत्नविभासुरः। सिन्दूराश्चितसीमन्तश्रियं यः श्रयतेऽनिशम् ॥४०॥रेजे श्रेणिद्वयी तत्र दक्षिणोत्तरसङ्गता । दिवः कल्पद्वयीवाद्यावतीर्णाऽनवलम्बना ॥४१॥ तत्रास्ति दक्षिणश्रेणिभूषाकनकभूषणम् । विख्यातं कनकपुरं कनकावासभासुरम् ॥ ४२॥ तस्मिन्मथितदुर्धर्षप्रत्यर्थिपृथिवीपतिः। विद्याभृत्कनकरथः प्रथयामास शासनम् ॥ ४३ ॥ पित्रा प्रपद्यमानेन तपस्यां शैशवेऽपि यः। साम्राज्ये प्राक्तनैः पुण्यैर्नुन्नेनेव न्ययोज्यत ॥४४॥ बाल्येऽप्यतुलाः कुल्याभाः श्रीवल्लीपल्लवोद्गमे । सोऽद्भुताः साधयामास विद्या विद्याधराग्रणीः ॥ ४५ ॥ श्रेणिः समग्रा नहि दक्षिणैव राजन्वती तेन | विराजते स्म । धैर्यादिकानां जगदद्भुतानां तत्तद्गुणानामियमुत्तराऽपि ॥४६ ॥ रजन्यामन्यदा वीरचर्ययाश्चर्यदर्शने । लाकौतुकी नृप एकाकी निर्ययौ निजसौधतः॥४७॥ यतःRI " नीचाः स्वदेहसन्तुष्टा मध्यमा धनबुद्धयः । उत्तमाः सततं तत्तदद्भुतैककृतादराः॥१॥" विलोकमानो नगरीमुररीकृतकौतुकाम् । स दक्षः प्रेक्षणं प्रेक्ष्य तस्थौ देवकुले क्वचित् ॥४८॥ तत्र सङ्गीतकस्यान्त४॥ गन्धर्वैर्मधुरस्वरम् । गीयमानामिमां गाथां कर्णातिथिमयं व्यधात् ॥ ४९ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy