________________
यथाऽवसरयोगं तु जिघांसुः किल दृश्यते ॥ ४२९ ॥ ततो भवामि जामाता नृपतेरस्य सम्प्रति । नापकर्तुमलं स्यान्मे यथाऽयं सचिवब्रुवः॥ ४३० ॥ ध्यात्वेति कुजकस्तस्य शुभंयोः समयोऽग्रतः। वक्ष्ये वृत्तान्तमित्येताः समाश्वास्य नृपं जगौ ॥ ४३१॥ राजन्नेता अभाष्यन्त मया तिस्रोऽपि योषितः। तत्प्रतिज्ञा स्वकन्यायाः प्रदानेन प्रमाणय ॥ ४३२॥
ततस्तदीयमात्रादिवार्यमाणोऽपि भूपतिः। ददौ तस्मै निजां कन्यां प्रतिज्ञाभङ्गभीरुकः॥ ४३३ ॥ शोषं श्रयेत सरितां६ कमिता भजेत शैत्यं कृशानुरुदयेत रविः प्रतीच्याम् । कम्पेत मेरुरमृतद्युतिरुत्तपेत लुम्पन्ति जातु ननु सत्पुरुषाः प्रति
ज्ञाम् ॥ ४३४ ॥ पाणिग्रहे च नैवात्र कस्यापि प्रमदोदयः। अनुरूपवराभावे विवाहो हि विडम्बना ॥ ४३५॥ परं स्वभर्तृवृत्तान्तज्ञापनाप्रमनायिताः । तिम्रोऽपि तत्र गीतानि जगुस्ता मधुरस्वरम् ॥ ४३६ ॥ पाणिमोक्षक्षणे कुजो जगाद जगतीपतिम् । मह्यमश्वीयसौवर्णहास्तिकादि प्रदीयताम् ॥ ४३७ ॥ ततः कोपविशालाक्षः श्यालकः कुजमालपत् । तुभ्यं रे कुन ! फूत्कुर्वन् सर्प एव प्रदास्यते ॥ ४३८ ॥ स एव दीयतामेवमुक्ते कुब्जेन तत्क्षणात् । कुतोऽप्यागत्य निःशूकं दन्दशूको ददंश तम् ॥ ४३९ ॥ ततः स तद्विषावेगव्याप्ताङ्गः प्राप्तमूर्छनः । लुठति स्म महीपीठे छिन्नमूल इव द्रुमः ॥ ४४०॥ तं तथाऽवस्थमालोक्य व्याकुलीभवदाशयाः । विलेपुरिति ता बाष्पपूरप्लावितलोचनाः॥४४१॥ हाऽस्मन्मनोऽम्बुजे हंस ! हाऽवतंस ! कलावताम् । दुर्दर्शा दुर्दशा केयमभूदाकस्मिकी तव ॥ ४४२ ॥ त्वां विना वल्लभेनास्मात्कः संयोजयितुं क्षमः। निशावियुक्तचक्रेण चक्रीमिव दिवाकरम् ॥ ४४३॥ ऋते त्वां प्राज्ञ ! नःप्रेयोवियोगदवसंभवम् । को निर्वापयिता तापमवन्या इव वारिदम् ॥ ४४४ ॥ अस्माभिस्तव रे दैव ! किमपाराधि दुर्विध! । यत्त्वयाऽस्मदभीष्टोऽयमीदृशीं नीयते