SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ॥ ६१३ ॥ भुञ्जानाः कल्पवल्लीनामिव तासां फलानि ते । निष्कर्माणः सुखं तत्र तस्थुर्मिथुनिनो यथा ॥ ६१४ ॥ अन्येयुस्तत्र तद्गन्धात्प्रापुषी जलमानुषी । तान्यभक्षयदीदृक्षं स्वादु कस्मै न रोचते ॥ ६१५ ॥ सिद्धदत्तश्च तां वीक्ष्य भक्षयन्तीं न्यषेधयत् । निपुणः पाणिगं कृत्वा रत्नं चैकमदीदृशत् ॥ ६१६ ॥ तयाऽपि धूर्तयाऽतर्कि रलं मे ददसे यदि । तदा ददे फलानीति ध्रुवं मामेष भाषते ॥ ६१७ ॥ ततः फलेषु लुब्धा सा प्रविश्याशु पयोनिधौ । ददेऽस्मै रत्नमानीय सोऽप्यस्यै फलमार्पिपत् ॥ ६१८ ॥ इयं यावन्ति रत्नानि ददौ तावन्त्ययं पुनः । फलानि दुर्लभं यस्य यद्वित्तस्य तदर्थिता ॥ ६१९ ॥ इत्यद्भुतं तया साकं कुर्वतः क्रयविक्रयम् । रत्नराशिर्बभूवास्य नवीन इव पर्वतः ॥ ६२० ॥ ततस्तैः पोतमापूर्य क्षेमेणागानिजं पुरम् । नृपस्य स्तोकमुत्कोचं स चक्रे चाविवेकतः ॥ ६२१ ॥ ततः कोपप्रदीप्तेन रत्नलोभेन पत्तिभिः । रत्नवीरनृपस्तस्य पोते स्वाज्ञामदापयत् ॥ ६२२ ॥ महाजनोऽपि नावर्जि पूर्व तेनाविवेकिना । अतस्तद्विषये कोऽपि नृपं नैव व्यजिज्ञपत् ॥ ६२३ ॥ किं करोमि क गच्छामि कमुपायं तनोम्यहम् । इति चिन्ताकुलस्यास्य दिवसा द्वादशात्यगुः ॥ ६२४ ॥ ततस्त्रयोदशे घस्रे स्वयमुत्पन्नसन्मतिः । इमानि परकीयानि नादातुमुचितं मम ॥ ६२५ ॥ इत्यामृश्य नृपस्तस्य पोतस्याज्ञाममुमुचत् । किमम्भोनिधिरुद्वेलः स्वतोऽन्येन निवार्यते ॥ ६२६ ॥ युग्मम् ॥ मुदितः सिद्धदत्तोऽथ पोतादुत्तारितैर्गृहे । कोष्ठागारांश्चकारान्नकणैरिव मणीगणैः ॥ ६२७ ॥ कोटीः स्वर्णस्य षट्षष्टिं चक्रे विक्रीय तान्ययम् । दुष्टभूतवदध्यष्ठात् त्यागभोगोज्झिताश्च ताः ।। ६२८ ॥ कलङ्क इव शीतांशोः क्षारत्वमिव वारिधेः । मिथ्यात्वमिव धर्मस्य रूपस्येव कुशीलता ॥ ६२९ ॥ कुनीतिरिव राज्यस्य दुग्धस्येव तुषोदकम् । कार्पण्यमविवेकस्य तस्य लक्ष्मीमदूषयत् ॥ ६३० ॥ युग्मम् ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy