________________
दानप्रदीपे
॥ १३१ ॥
च शमयत्युपसेवितुः ॥ ५९६ ॥ वातांश्चतुरशीतिं तान् दोषान् षट्सप्ततिं दृशः । कुष्ठानष्टादशाप्येतन्नाशयत्याशु चाशितुः ॥ ५९७ ॥ सर्वेऽपि संनिपाताद्या व्याधयो दुर्धरा अपि । सद्यस्तेन च शाम्यन्ति घनेनेव दवाग्नयः ॥ ५९८ ॥ नश्यत्या| सेवनाच्चास्य विषं स्थावरजङ्गमम् । इदं समग्ररोगघ्नं परमं हि रसायनम् ॥ ५९९ ॥ तस्मादिमानि बीजानि स्थापनीयानि यत्नतः । एवमावेद्य योगीन्द्रः सौवमास्पदमासदत् ॥ ६०० ॥ सिद्धोऽपि सुदिने तानि बीजानि विधिनाऽवपत् । अफलंश्च मुहूर्तेन वयः संफुल्लपल्लवाः ॥ ६०१ ॥ फलैस्तासां स लोकानामसाध्यानपरौषधैः । अध्वंसिष्ट द्रुतं दुष्टव्याधीन् धन्वन्तरिर्यथा ॥ ६०२ ॥ रूपकाणां शतेनायं सहस्रेणायुतेन च । क्वचिच्छतसहरुयाऽपि तदेकैकं विचिक्रिये ॥ ६०३ ॥ ततस्तदर्जितैर्वित्तैरयं लेभे महेभ्यताम् । ध्रुवं गीर्वाणभूर्वाणी प्रमाणीभवति द्रुतम् ॥ ६०४ ॥ अन्येद्युः पोतमापूर्य पण्यैः पाथोधिमाप सः । न संतोषं विना तृप्तिर्वित्तैरप्यमितैर्यतः ॥ ६०५ ॥ द्वीपान्तरमयं प्राप्तः प्रचक्रे क्रयविक्रयम् । ततः पण्यान्यगण्यानि क्रीत्वा प्रतिचचाल च ॥ ६०६ ॥ इतश्चोद्धतवातेन सर्वतः क्षुब्धसिन्धुना । पोतश्चलाचलश्चक्रे गिरिकेणेव गेन्दुकः ।। ६०७ ॥ पोतवत् कम्पितस्वान्ताः संशीतिप्राप्तजीविताः । सिद्धदत्तस्तदा सर्वे जनाश्चाकुलतां दधुः ॥ ६०८ ॥ अयं लघुकृतो जातु न मज्जेदिति ते धिया । विलक्षाश्चिक्षिपुः पोतादखण्डं भाण्डमम्बुधौ ॥ ६०९ ॥ ततः स लोलकल्लोलैरुल्लासित इतस्ततः। शून्यं द्वीपं द्रुतं प्राप जीविताशां जनः पुनः ॥ ६१० ॥ पोतादुत्तीर्य तीरोर्व्या तस्थुः स्वस्थतयाऽथ ते । न्यक्षेणान्नक्षयस्तेषां तस्थुषां तत्र चाभवत् ॥ ६११ ॥ विनाऽन्नेन जनाः सर्वे वारिणा मकरा इव । दुःखायामासुरत्यन्तं नृणामन्नं हि जीवितम् ॥ ६१२ | सिद्धदत्तस्ततस्तत्र तद्वीजं विधिनाऽवपत् । प्ररोहन्ति स्म ता वहयः फलन्ति स्म च सर्वतः
अष्टमः
प्रकाशः।
॥१३१॥