SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे अष्टमः प्रकाशा ॥१३२॥ व्ययभीरुरयं क्वापि न महाजनसंगमे । समगस्त कलङ्केन पतेरिव बहिष्कृतः॥ ६३१ ॥ अधर्मा धर्मशालायाः समासत्तौ न जातु सः। संचचार कुधीब्रह्मपुर्या इव जनङ्गमः॥ ६३२॥ नेन्दिरामदिरामत्तः स तृणायाप्यमन्यत । महाजनं ततस्तस्य नित्यमक्षिगतोऽभवत् ॥ ६३३ ॥ स देवान्नार्चयामास नोपासामास सद्गुरून् । सच्चक्रे च न सच्चक्रं नोपचक्रे च दुःस्थितम् ॥ ६३४ ॥ लोभाकुलतया तत्तद्वित्तोपायैकदत्तधीः। मुधैव गमयामास केवलं पशुवजनुः ॥ ६३५ ॥ धनदत्तस्य चित्तं तु देवताप्रगुणीकृतः । सम्यक् प्रकाशयामास विवेकमणिदीपकः॥ ६३६ ॥ सद्योऽप्ययं धनी जज्ञे यथौचित्यं वणिज्यया। विवेकच्छेकतां धत्ते प्रायः संपदुपार्जने ॥ ६३७ ॥ व्यधत्त सततं देवभक्तिं निर्णिक्तवासनः । निदानं संपदामेषा सर्वासामिति सन्मतिः॥ ६३८ ॥ तत्त्वातत्त्वप्रकाशाय गुरुरेव प्रगल्भते । इत्याराध्य त्रिधा शुद्ध्या स गुरुं गुरुभक्तितः ॥ ६३९ ॥ सर्वत्र व्यवहारेषु संजग्मे स महाजनैः । वर्धमानैर्यशोमानमहत्त्वैश्च दिने दिने ॥ ६४०॥ कलिः सकलकल्याणवल्युन्मूलनकुञ्जरः। विपदा पदमित्येष न क्वाप्यकलहायत ॥ ६४१ ॥ अस्मादप्रत्ययोऽप्रीतिलघुता वचनीयता । न के दोषाः सपोषाः स्युरित्यसत्यमवग् न सः॥ ६४२॥ दत्ते हि वधबन्धाद्यमिह चौर्यद्रुमः फलम् । श्वधपीडाः पुनः प्रेत्य नादत्तादत्तमित्ययम् ॥ ६४३ ॥ पारत्रिकैहिकीः सर्वा विपदः पारदारिकः । प्राप्नोतीत्यन्यपद्माक्षी न ददर्श दृशाऽपि सः ॥६४४ ॥ मूलं दुःखविषद्रूणां व्यसनानीति नीतिवित् । अहितेभ्य इवैतेभ्यः संचचार स दूरतः ॥ ६४५ ॥ पुरुषं भूषयन्त्येते भारस्त्वाभरणोत्करः । इत्येष विनयायेषु गुणेष्वेवादति व्यधात् ॥ ६४६ ॥ यशः श्रेयःफलं दत्तं भुक्तं स्यान्मलसात्पुनः। तस्मादायोचितं न्यायोपात्तं वित्तमदत्त सः॥ ६४७ ॥ सुभगकरणाचारः सर्वतः सर्वदाऽप्ययम् । सर्वस्याप्यत ॥१३२॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy