SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्वीचके चक्रवर्तिताम् ॥ १७७ ॥ चतुर्भिः कलापकम् ॥ अन्यदा भवदावाग्निप्रावृषेण्यपयोमुचम् । गुरूपदेशमाकर्ण्य वैराग्येण तरङ्गितः॥ १७८ ॥ बिभ्यद्गुरभोगेभ्यो भीषणेभ्यो भुजङ्गवत् । मन्वानः सौख्यदमनीः कामिनीः शाकिनीरिव ॥ १७९ ॥ जानानो जनितोन्मादामिन्दिरां मदिरामिव । बन्धून् बन्धनवद्वोधन विषयान् विषवद्विदन ॥ १८॥ यौवनेऽपि परित्यज्य रजोवद्राज्यसंपदम् । आददे संयमैश्वर्य सज्जा हि स्वहिते बुधाः॥१८१॥ चतुर्भिः कलापकम् ॥ यतः "प्रशस्याः खलु ते भोगांस्तारुण्येऽपि त्यजन्ति ये । जरसा परिभूतस्तु मुच्यते तैः स्वयं न कः॥१॥" .. | ग्रहणासेवनाशिक्षे ग्राहितो गुरुणाऽथ सः। सिंहत्वेन विनिष्क्रान्तः सिंहत्वेन तपस्यति ॥ १८२ ॥ तप्यमानमविश्रान्तं दुस्तपानि तपांसि तम् । विविधा लब्धयो भेजुरापगा इव सागरम् ॥ १८३ ॥ दधुरौषधितां तस्य कफविग्रण्मलादयः। यदेषामनुषङ्गेण क्षीयन्ते व्याधयोऽखिलाः॥१८४ ॥ स चारणाभिधां लब्धि बभार भुवनाद्भुताम् । यया जिना नमस्यन्ते गत्वा नन्दीश्वरादिषु ॥ १८५ ॥ क्षीरास्रवमध्वास्रवबीजबुद्ध्यादयोऽपि तम् । परस्परस्पर्द्धयेव श्रयन्ति स्म समृद्धयः॥ १८६ ॥ स एव वज्रवेगाख्यः प्रत्यक्षो लक्ष्यतां सखे !। अस्यां हिरेणुसङ्गेन नीरोगी भविता भवान् ॥ १८७ ॥ इत्यसीमानमाकर्ण्य महिमानमयं मुनेः। विस्मयानन्दनिस्यन्दमाससाद विशारदः॥ १८८ ॥ ततो मुनीन्द्रमानम्य तदंहिकमलोद्भुवा । रजसाऽमृशदङ्ग स्वमुत्तरङ्गः स भक्तितः॥ १८९ ॥ स्पर्शादस्य तनुस्तस्य रुग्विकारनिकारतः । सद्यः सुवर्णतां प्रापदयःसिद्धरसादिव ॥ १९०॥ अथो मुनीश्वरः पश्यस्तस्य धर्मस्य योग्यताम् । उपविश्य शिलापीठे धर्म तं प्रत्युपादिशत् ॥१९१॥पारावार इवापारे संसारे मा विशारद ! चिन्तारत्नमिवासाद्य धर्मयोग मुधा विधाः ॥१९२॥ कार्मणे
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy