SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाश दानप्रदीपेशर्मलक्ष्मीणां मर्माविधि कुकर्मणाम् । धीमन् ! निर्माहि निर्मायमुखमं धर्मकर्मणि ॥ १९३ ॥ काष्ठं कल्पद्रुमः सोऽपि दृषद्दिविषदां मणिः । पशुः कामगवी साऽपि धर्मस्य ध्रुवमग्रतः॥ १९४ ॥ धर्मेण ऋद्धिमासाद्य धर्ममाराधयेदुधः । यत-| ॥६७॥ |स्तस्यान्यथापातः स्वामिद्रोहकपातकैः॥ १९५ ॥ धर्म एवास्ति सर्वेषां सुखानां खानिरक्षया। तदेषिणा ततस्तत्र यतनीय| महर्निशम् ॥ १९६ ॥ धर्मश्चाभिदधे द्वेधा साधुश्राद्धविभेदतः । श्राद्धधर्म प्रपद्यस्व योग्यता हि तवेदशी ॥ १९७॥ इति तगिरमाकर्ण्य सकर्णस्तस्य संनिधौ । श्राद्धधर्ममुपादत्त श्रद्धाबन्धुरधीरयम् ॥ १९८ ॥ कुमारो धर्ममासाद्य कल्पदुमिव दुर्लभम् । आससाद तमानन्दं यो वाचां नैव गोचरः ॥ १९९ ॥ चरितार्थस्ततस्तस्थौ कायोत्सर्गे पुनर्मुनिः।। स्वहिते नहि तेजस्वी प्रमाद्यति मनागपि ॥२०॥ स्वीकारं श्राद्धधर्मस्य दृष्ट्वा हृष्टाशयो भृशम् । साधर्मिकतया तस्मिन् परमं स्नेहमुद्वहन ॥ २०१॥ विषकार्मणभूतादिप्रभूतादीनवच्छिदम् । स्फुटप्रभावां गुटिकां तस्मै विद्याधरो ददौ ॥२०२॥ युग्मम् ॥ अहो! धर्मस्य माहात्म्यमहो! अस्योपकारिता । इति विस्मयविस्मेरः सोऽग्रहीत्तां तदाग्रहात् ॥२०३ ॥ कृत्वा, धर्ममयालापं समं तेन सधर्मणा । खेचरः सह खेचर्या जगाम निजधामनि ॥२०४॥ अथानम्य मुनिं तस्मादुत्तीर्णस्तीर्थराजतः । विलोकमानो वसुधां विविधाश्चर्यबन्धुराम् ॥ २०५॥ पश्चिमार्णवतीरोर्वीभामिनीभालभूषणम् । कुमारः | स्फाररूपश्रीः प्राप रत्नपुरं पुरम् ॥२०६॥ नाम्ना मदनमञ्जषा मञ्जषा रूपसंपदः। तृणीकृतसुरस्त्रैणा पणस्त्री तत्र वर्तते |॥ २०७ ॥ उदारस्फारशृङ्गारं चरन्तमुपमन्दिरम् । मूर्त मारमिवालोक्य कुमारं विममर्श सा ॥ २०८ ॥ आस्यं दत्तेऽस्य 2 पूर्णेन्दोर्दास्यं सौन्दर्यसंपदाम् । निभाल्यते च निर्माल्यमिव नीलोत्पलं दृशोः ॥२०९॥ वक्षः पक्ष्मलनेत्राणां क्रीडायै ॥६७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy