SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ काञ्चनी शिला । सौवर्णकलशौ स्कन्धौ कण्ठः कम्बुविडम्बकः॥२१०॥ भुजौ शौर्यगजालानस्तम्भौ भ्रूः स्मरकार्मुकम् ।। चिकुरप्रकरः केकिकलापप्रतिबिम्बकम् ॥ २११॥ अहो! काऽप्यस्य सौभाग्यभङ्गिसर्वाङ्गसङ्गिनी । तदयं जरतः स्रष्टः सृष्टि व विभाव्यते ॥ २१२ ॥ चतुर्भिः कलापकम् ॥ इति ध्यानकतानायास्तस्या दर्शनमात्रतः। तस्मिन्नदृष्टपूर्वेऽपि प्रेम | प्रादुरभूत्परम् ॥ २१३ ॥ सौभाग्यस्वानुरागादिगुणराशिवशंवदः । अतन्द्रां तारचन्द्रोऽपि तामालोक्य मुदं दधौ ॥२१४॥ सा तं निमन्त्रयामास सदने मदनेरिता । ततः प्रहस्य स प्राह यतीवाहमकिञ्चनः ॥ २१५ ॥ उवाच सस्मितं साऽपि त्वत्तो नास्मि धनार्थिनी । सौभाग्यादेव देव ! त्वां कामये कामकेलये ॥ २१६ ॥ धनं मे धनदस्येव पुराऽपि गणनातिगम् । तत्प्रसद्य मदावासं स्वनिवासादलङ्कर ॥ २१७ ॥ एवमत्यर्थमभ्यर्थ्य प्रथितान्तरगौरवा । सा तं निवासयामास स्वावासे स्नेहलाशया ॥ २१८ ॥ अयं तया तथा बहुमानि स्नानाशनादिना । यथा वशंवदां स्वस्य विदुरःस विवेद ताम् ॥२१९ ॥ अहो ! सौभाग्यमेतस्य वर्णयामः किमद्भुतम् । पण्याङ्गनाऽपि निष्पण्यं यदेनं बहु मन्यते ॥२२०॥तत्र भोगान् महाभोगान् । | भुञ्जानो निजगेहवत् । स तया पूर्यमाणर्द्धिरुदयास्ते विवेद न ॥२२१॥ एतस्य भाग्यमहिमा न सीमामवलम्बते । प्रत्युतास्मै धनं दत्ते गणिका यदनर्गलम् ॥२२२॥ यथेच्छ स्वेच्छया तस्मै यच्छन्ती धनमन्वहम् । तामालोक्य क्रुधाविद्धान्यदा वृद्धाCऽभ्यधादिति ॥ २२३ ॥ दुर्गतैकपुरोगाय भुजङ्गाय ददानया । मुधामुग्धे किमु धनं निधनं नीयते त्वया ॥ २२४॥नवेसि | स्वकुलाचारं वत्से ! तुच्छमते ! किमु । न जातु जातौ नः काऽपि कामुकाय धनं ददौ ॥ २२५ ॥न सौभाग्यं न वैदग्ध्यं न प्रेम न पराक्रमः। वित्तैकदत्तचित्तत्वाद्गण्यते पण्ययोषिता ॥ २२६ ॥ कुष्ठिनोऽपि वपुःप्रष्ठान मूर्खानपि मनीषिणः । पण्या
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy