________________
दानप्रदीपे
प्रकाशः।
*
*
*
श्रिये ॥ १६० ॥ इति विंशतिरहन्तः स्तुताः सम्मेतपर्वते । तन्यासुः सुप्रसन्ना मे सौभाग्यारोग्यसंपदः ॥ १६१॥ ततोऽपसृत्य स्तूपेभ्यो मन्वानः स्वकृतार्थताम् । चित्ते स चिन्तयामास वैराग्याहुःखगर्भतः॥ १६२ ॥ अद्य जन्मफलं लेभे गता दुर्गतिपातभीः। कुत्सितस्यापि देहस्य जाता च चरितार्थता ॥ १६३ ॥ अतः परं किमेतेन विडम्बनकरण मे। तत्सद्यस्त्याग एवास्य प्रशस्यो नीरसेक्षुवत् ॥ १६४ ॥ ध्यात्वेति मर्तुमुत्तुङ्गं शृङ्गमारूढवानयम् । ददर्श काननस्यान्तः कायोत्सस्थितं मुनिम् ॥ १६५॥ अहो ! अस्य प्रशान्तत्वमहो! निःसङ्गचित्तता । अहो ! ध्यानकतानत्वमहो! भवविरक्तता ॥ १६६ ॥ तदस्य दर्शनादेव दर्शने सफले मम । वन्दनेनापि विदधे फलेग्रहिमिमां तनुम् ॥ १६७ ॥ मृतिस्त्वात्मवशैवेति विचिन्त्य चतुराशयः । उत्ततार ततस्तारचन्द्रः पुण्यवितन्द्रधीः ॥१६८॥ वनान्तस्तमुपागम्य सम्यग्भक्तिः स नेमिवान् । पर्युपास्य च शुद्धात्मा यावत्प्रतिनिवर्तते ॥ १६९ ॥ तावत्खेचरमिथुनं कुतोऽप्यागत्य भक्तितः। मुनि नत्वा पुरस्तस्यो-| पविवेश विशेषवित् ॥ १७०॥ तदृष्ट्वा विस्मितस्तारचन्द्रःप्रोवाच खेचरम् । को युवांव निवासो वां किमर्थ वामिहागमः ॥ १७१ ॥ कश्चायं यतिरित्युक्तः प्राह विद्याधरेश्वरः। वैताब्यशैलवास्तव्यावावां खेचरदम्पती ॥ १७२ ॥ नन्तुमेनं महात्मानमत्रागच्छाव भावतः। यतेरस्य चरित्रं तु चमत्कारकरं शृणु ॥ १७३ ॥ तथाहि
पालयनुत्तरश्रेणी वैतादयगिरिसङ्गताम् । वज्रवेगाभिधो राजा विद्याभृत्कुलकौस्तुभः॥ १७४॥ सिद्धानेकमहाविद्यः सौन्दर्यविजितस्मरः । रूपश्रिया धुरमणीस्तरुणीः परिणीतवान् ॥ १७५ ॥ बाल्येऽपि प्रेमतः पित्रा दत्तं रत्नपुरे पुरे। भुञ्जानः प्राज्यसाम्राज्यमेकच्छत्रं सुसूत्रितम् ॥ १७६ ॥ असीमविक्रमाक्रान्तप्रौढप्रत्यर्थिपार्थिवः । सद्यो विद्याभृतां चके
*
**
*
*