________________
तृणीयन्ति तरुणा यन्निरीक्षणे ॥ १२६ ॥ क्रीडन्ती प्रमदवने प्रमदेन सखीवृता । दन्दशूकेन निःशूकमदन्दश्यत साऽन्यदा ॥ १२७ ॥ आक्रान्ता विषवीचीभिर्विष्वद्रीचीभिरानखम् । लुलोठ सावनीपीठे छिन्नमूलेव वल्लरी ॥ १२८ ॥ चिकित्साभिरतुच्छाभिस्तां नृपादेशसादराः । विषापहारिणो वैद्या भिषज्यामासुरञ्जसा ॥ १२९ ॥ परं तत्रागदङ्कारप्रतीकाराः पर| श्शताः । वैफल्यं कलयामासुरुपदेशा यथा जडे ॥ १३० ॥ ततो दुःखार्दितः क्ष्मापः सचिवादिविचारतः । पटहं वादया - मास स्फुटमन्तश्चतुष्पथम् ॥ १३१ ॥ जीवितादपि मेऽभीष्टां यः सुतां सज्जयिष्यति । स एतां सोत्सवं पाणौ कर्त्ता रतिमिव स्मरः ॥ १३२ ॥ कन्यास्वीकारलोभेऽपि तत्र कोऽपि न कोविदः । तमैष्ट पटहं स्प्रष्टुं मृगाङ्कमिव भूमिगः ॥ १३३ ॥ कुमारस्तु तमप्राक्षीन्निःस्पृहोऽपि दयाधिया । कला महात्मनामन्योपकारैकफला यतः ॥ १३४ ॥ प्रीतियुक्तास्ततस्तत्र नियुकास्तं नृपान्तिकम् । द्रुतमानिन्यिरे कन्याचैतन्यमिव मूर्तिमत् ॥ १३५ ॥ नृपोऽप्यालोक्य तं प्रीतो जानंस्तां जीवितामिव । प्रीत्यालापादिना बन्धुमिवानन्द्य मुदाऽवदत् ॥ १३६ ॥ कलासु कौशलं सम्यक् तवाकृत्यैव निश्चितम् । साक्षिणी गुणलक्ष्मीणामशेषाणां यदाकृतिः ॥ १३७ ॥ तदेनां नीरुजीकृत्य प्रमोदय पुरीमिमाम् । न साम्प्रतं विलम्बस्यावसरोऽस्ति महाशय ! ॥ १३८ ॥ कुमारोऽथ स्वपार्श्वस्थविषघ्नमणिसङ्गिना । जलेनाच्छोटयामास कन्यां कारुण्यपुण्यधीः ॥ १३९ ॥ ततो व्यपगताशेषविषावेगा झडित्यहो ! | स्वस्थीभूता समुत्तस्थौ सुप्तजागरितेव सा ॥ १४० ॥ कलावन्तं तमालोक्य पुरतः सानुरागिणी । युक्तं कैरविणीवासीद्विकसन्नेन कैरवा ॥ १४१ ॥ उज्जीवितां सुतां दृष्ट्वा हृषितः क्षितिरक्षिता । हर्षपीयूषवर्षिण्या भाषया तमभाषत ॥ १४२ ॥ मन्ये कारुण्यपुण्यानामग्रण्यं त्वां महीतले । यत्ते परोपकारैककुशलाः सकलाः