________________
दानप्रदीपे
दशम: प्रकाशः।
॥१६२॥
एवैकः पतिर्गतिः। यथा वल्ली प्ररोहाणामुपकर्ता महीरुहः॥ २४२॥ एकशो निजकिकाः परिचर्यामवेक्षितुम् । स सद्यः स्वपदाम्भोजैः पूज्यो यमपि त्वया ॥ २४३ ॥ इति संदेशसध्रीची तस्मै विज्ञप्तिपत्रिका । प्रेष्यमाणा मया भक्त्या त्वया ग्राह्यानुगच्छता ॥ २४४ ॥ इत्युक्त्वा चारुचीराद्यै स्तं सद्यः सच्चकार सा । पत्यौ सत्या तदा भक्तिस्तत्सुहृद्यपि सा यदि ॥ २४५॥ ततस्तदैव भूभर्तुरनेकपसमर्पणात् । साऽऽत्मानमनृणीकृत्य वाग्बन्धाब्धिमतीतरत् ॥ २४६ ॥ एते त्वया कुतः प्राप्ता इति पृष्टा जगाद सा । राजन् ! ध्वजभुजङ्गेन मह्यं प्रीत्या प्रजिध्यिरे ॥ २४७ ॥ नितान्तमवनीकान्तस्तन्निशम्य विसिष्मिये । तादृश्युदारता कस्य निर्मिमीते न विस्मयम् ॥ २४८ ॥ वारंवारं कुमारं तं स्मारं स्मारं स्मरातुरा । अथात्वरिष्ट सा द्रष्टुं रथाङ्गीव निशि प्रियम् ॥ २४९ ॥ न दुकूलं न ताम्बूलं न स्नानं न विलेपनम् । न गीतं न च संगीतं तं विना तन्मुदेऽभवत् ॥ २५० ॥न परं तं विना शून्यं पूर्ण द्रव्यैः स्वमन्दिरम् । अमस्त साद्भुताकारकुमारं पुरमप्यदः ४॥ २५१ ॥ परोपकारस्य महानुभावता निभाल्यतां काऽप्यनिभा सभासदः। यतः पणत्यप्यनुरागमान्तरं बभारतस्मिन्नविलोकितेऽप्यसौ ॥ २५२ ॥ अथ सार्थेशसार्थे सा लेखं प्रैषत हर्षतः । तस्मै स्वयं विवाहस्य सत्यङ्कारमिव स्फुटम् ॥२५३ ॥ तमुपादाय सार्थेशः कृतार्थक्रयविक्रयः। प्रस्थितः क्रमतः प्राप पुनरुज्जयिनी पुरीम् ॥ २५४ ॥ तत्र ध्वजभुजङ्गस्य मिलितः प्रीतिपूर्वकम् । सार्थेशः करिदानाचं वृत्तान्तं व्यक्तमुक्तवान् ॥२५५॥ त्वदीयेनोपकारेण धनसारेण हारिणा। मानसं वासयामाहे तथा तस्याः समन्ततः ॥ २५६ ॥ नृपाद्यन्ययुवारब्धा प्रवृद्धा वासनास्ततः। निर्मूलं सकलाः सद्यो यथा दूरमपासरत् ॥ २५७ ॥ त्वयि स्नेहातिरेकेण तया मह्यं समर्पितम् । दुकूलादिमहादानं निजनेत्रैः पवित्रय ॥ २५८ ॥
सभासदः!
सा लेख
शकृतार्थक्रया
॥१६२॥