SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ दानप्रदीप विलम्बिष्ठा यद्धर्मे बहुविघ्नता ॥ २७९ ॥ ततः प्रासादमासाद्य सोत्सवं रत्नशेखरम् । तनयं रत्नमञ्जर्या नृपो राज्ये न्यवी- पञ्चम: ४ विशत् ॥ २८० ॥ अपरं च परीवारं यथोचितममानयत् । अमारिपूर्वकं चक्रे चैत्येष्वष्टाह्निकामहम् ॥ २८१ ॥ अथ स्वपु-18 प्रकाशः। त्रभूपालकृतनिष्क्रमणोत्सवः । दीनादीनां महादानं ददानश्चरणं चिरम् ॥ २८२ ॥ पालयेरिति पौराणां गिरः कर्णपथं है नयन् । समेत्य वनमुर्वीशो गुरुमेवं व्यजिज्ञपत् ॥ २८३ ॥ युग्मम् ॥ प्रभो! प्रसादमाधाय संसारवटकोटरे । पतन्तं व्रत| रज्या मां सवधूक समुद्धर ॥ २८४ ॥ प्रावाजयत्सपत्नीकं भगवानपि तं नृपम् । अचिराच्चोभयी शिक्षा सराजर्षिरशिक्षत 8 ॥ २८५॥ पवित्रेण चरित्रेण लवित्रेणेव सोऽचिरात् । कर्माण्युन्मूल्य निर्मूलं परमं पदमासदत् ॥ २८६ ॥ इत्येकरत्नमपि |धर्ममयं गृहीतं दत्ते महोदयसुखादिमहाफलानि । भव्यास्ततस्तदुपसंग्रहमातनुध्वं सद्यः समिग्रति यथाऽद्भुतसंपदोवः॥२८७॥ | इत्याकर्ण्य गुरोः पुण्यदेशनां शुभवासनाः। नृपाद्याः प्रत्यपद्यन्त सम्यक्त्वाद्यं प्रमोदतः ॥ २८८ ॥ अथावसरमासाद्य |पप्रच्छ स्वच्छधीर्गुरुम् । ज्ञानदर्पणसंक्रान्तसर्वभावं भुवः प्रभुः ॥ २८९ ॥ पद्माकरेण पूर्वस्मिन् भवे पुण्यमकारि किम् । येन देवा ददत्यस्मै संपदोऽभीप्सिताः सदा ॥२९० ॥ गुरुर्जगाद राजेन्द्र ! पुण्यं प्राच्यभवे यथा । अयं पद्माकरश्चक्रे तथा सम्यग् निशम्यताम् ॥ २९१ ॥ ___ अत्रैव भरतक्षेत्रे पुरं भोगपुराभिधम् । यत्र रत्नमयैश्चैत्यैर्निशाऽप्यदिवसायत ॥ २९२ ॥ श्रेष्ठी तत्राजनि श्रीमान्नन्दनो नन्दनोपमः । सम्यक्त्वाद्या गुणा यस्मिन् रेजुः कल्पद्रुमा इव ॥ २९३ ॥ ज्ञानसागरसूरीन्द्रास्तत्र भूरिपरिच्छदाः। अन्यदा समवासाघुवर्षाकालचिकीर्षया ॥ २९४ ॥ स्वाध्याययोगसद्ध्यानतपोवृद्धिविधायिनः । वसतौ निरवद्यायां तस्थुस्ते ४
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy