________________
तव सर्वेष्टसिद्धयः ॥ २७७ ॥ मन्त्री प्राह मया कामकुम्भः पुण्यैरलभ्यत । तं मेऽर्पयेति भूपेन प्रोक्तः पुनरवोचत ।। २७८ ॥ नहि पापवतो गेहे पुण्यायत्तः समेत्ययम् । प्रकाशस्तपनाधीनस्तदभावे भवेत्किमु ॥ २७९ ॥ प्राप्तोऽपि प्रत्युतोल्केव बह्रनर्थाय जायते । यद्यप्येवं तथाऽप्येनमर्पयेत्यवदन्नृपः ॥ २८० ॥ ततस्तस्मै ददौ मन्त्री घटन्ते नापि यत्नतः । परःशतभटारन्धरक्षः कोशे न्यवेशि सः ॥ २८१ ॥ मन्त्रिणाऽथ तमानेतुमादिष्टो लकुटः प्रगे । भटादिकटकं कुद्धं कुद्धं पश्चात्तमानयत् ॥ २८२ ॥ अथावोचन्नृपोऽमात्यं सत्यैवाजनि गीस्तव । परं मे सैन्यमुल्लाघं कुरु त्वं करुणाकर ! ॥ २८३ ॥ झटित्यपीपटत् सोऽपि समीरैश्चामरैश्चमूम् । संपदो हि सतामन्योपकृतौ विहितत्रताः ॥ २८४ ॥ अहो ! धर्मे स्थिरा ते धीरहो ! धर्मस्य ते फलम् । इत्युक्त्वाऽथ दुकूलाद्यैः सच्चक्रे तं मुदा नृपः ॥ २८५ ॥ ततोऽयं भूपतिर्जातप्रत्ययः प्रत्यपद्यत । प्रमोदेनोन्मना जैनं धर्म धीसखसन्निधौ ॥ २८६ ॥ राज्यं प्रपात्य चिरमद्भुत पुण्यकृत्यैस्तैस्तैर्विभास्य जिनशासनमन्वहं तौ । दीक्षामवाप्य विरचय्य तपश्च तीव्रं सिद्धिं समीयतुरसंख्यसुखस्वरूपाम् ॥ २८७ ॥ इत्थं कामार्थमोक्षा हि धर्मादेवाभवंस्तयोः । ततो वदामि धर्मस्य सर्वार्थेषु प्रधानताम् ॥ २८८ ॥
।
अथ पादस्तुरीय स्तमवादीद्वादसादरः । वादिन्नवादि यद्धर्मे प्राधान्यं धीमता त्वया ॥ २८९ ॥ तत्सत्यं किंत्विदं कर्म मार्गमाश्रित्य युज्यते । मध्या एव च तं मार्गमङ्गीकुर्युर्न तूत्तमाः ॥ २९० ॥ दुःखानुगं सुखं दिव्यं मानवीयमपीप्सवः । नानादानादिकं धर्ममाद्रियन्ते हि मध्यमाः ॥ २९९ ॥ उत्तमाः पुनरेकान्तसौख्यं मोक्षमभीप्सवः । प्रापकं तस्य निष्कर्म| मार्गमारादुमुद्यताः ॥ २९२ ॥ तथाहि — प्रवृत्तिर्महतां न्यक्षा प्रेक्षापूर्वककारिणाम् । प्रयोजनाविनाभूता: स्वपरोपकृतिश्च