SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे षष्ठः प्रकाश ॥९४॥ तत् ॥ २९३ ॥ सुखस्य प्रापणे सा च तच्चैकान्तिकमक्षयम् । दुःखैरननुषकं च तात्त्विकं न पुनः परम् ॥ २९४ ॥ न च संसारिक सौख्यमस्ति किञ्चन तादृशम् । तस्य तद्वैपरीत्येन सर्वस्याप्युपलब्धितः॥ २९५ ॥ उद्भूतमप्यमृतभोज्यमणीविमानस्वर्गाङ्गनाऽभिमतसिद्धिसुरदुमाद्यैः। ईादसौख्यमयमायतितिर्यगादिदुःखानुबन्धि निखिलं खलु दिव्यसौख्यम् ॥२९६॥ सार्वभौमविभवादिसंभवं मानुषं सुखमसंख्यमप्यदः । रोगशोकजननादिमिश्रितं नारकाद्यसुखदायि चायतौ ॥ २९७ ॥ यद्यनुत्तरदेवानामपि नो सौख्यमक्षयम् । का वार्तास्तु ततस्तस्य तदधःस्थानभाविनः ॥ २९८ ॥ तादृक्षं हि सुखं मोक्षे न्यक्षकर्मक्षयात्मके । प्राप्तिश्च तस्य निष्कर्ममार्गमेव समीयुषाम् ॥ २९९ ॥ अधर्म इव धर्मेऽपि क्षीणे मोक्षो हि जायते । असौ यियासतां तत्र सौवर्णः खलु शृङ्खलः ॥ ३०० ॥ अत एवोत्तमाः कर्ममार्गमुत्सृज्य सर्वथा । मुमुक्षमाणा निष्कर्ममार्गमङ्गीचरीक्रति ॥ ३०१॥ तथाहि प्रथमस्तीर्थनाथो धर्मनयस्थिती । प्रथयन्नपि मुक्त्यर्थमुत्तस्थे सर्वसंवृतः॥ ३०२॥ श्राद्धभक्तितीर्थयात्रोद्धारादिविधिरप्यहो!। स्वीचक्रे भरतश्चक्री मुक्तये सर्वसंवरम् ॥ ३०३ ॥ परःसहौस्त्रिदशैः सेव्यमानः शिवोत्सुकः । षट्खण्डक्षितिसाम्राज्यं सगरो गरवजहौ ॥ ३०४ ॥ सर्वामुरूमलङ्कर्वन्नपूर्वैः सार्वसद्मभिः। जुजुषे हरिषेणोऽपि मोक्षार्थमनगारताम् ॥ ३०५ ॥ प्रजा इव प्रजाः शासन्नयधरैलङ्कृतम् । तत्याज तृणवद्राज्यं श्रीरामोऽपि शिवोन्मनाः ॥ ३०६ ॥ परेऽप्युद्दण्डदोर्दण्डाः पाण्डवाद्याः शिवार्थिनः । प्राज्यमुत्सृज्य साम्राज्यमभजन् सर्वसंयमम् ॥ ३०७ ॥ त्वया दृष्टान्तयाञ्चके मन्त्री धर्मस्थले च यः। यो द्वितीयपदा दण्डवीर्यश्चार्थस्थले नृपः ॥ ३०८॥ तावष्यभ्युद्यतौ मुक्तौ भेजतुः सर्वसंवृतिम् । त्यक्त्वा दानादिकं धर्ममद्भुतां तां च संपदाम् ॥ ३०९ ॥ ततोऽशेषपुमर्थेषु सिद्धा ॥१४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy