________________
दानप्रदीपे
॥ ९३ ॥
प्रस्तावयामास द्वात्रिंशद्भेदमेदुरम् ॥ २६० ॥ दर्श दर्श नृपस्तच्च श्रावं श्रावं च विस्मितः । किमिन्द्रजालं किं स्वप्नः स्वर्गः किं वाऽवतेरिवान् ॥ २६१ ॥ इत्याद्याः कल्पनाः कुर्वन्ननेका निद्रयोज्झितः । त्रियामां गमयामास कोटियामात्मिकामिव | ॥ २६२ ॥ युग्मम् ॥ प्रातर्यावन्नृपो मन्त्रिसोधमेति विलोकितुम् । सर्व संवृत्य तन्मन्त्री तावदागान्नृपान्तिकम् ॥ २६३ ॥ चक्रे च प्राभृतं रत्नभृतं स्थालं महीभृतः । सोऽपि तां संपदं दृष्ट्वा पृष्टवांस्तं सविस्मयः ॥ २६४ ॥ कथमार्जिं त्वया संपदियमत्यद्भुता वद । मन्यप्युवाच पुण्येन स्वामिन्नेतामुपार्जिजम् ॥ २६५ ॥ नहि पुण्यं विना किञ्चित् शुभं संपद्यते नृणाम् । इत्याकर्ण्य नृपो मूढ इवासीद्व्यसृजच्च तम् ॥ २६६ ॥ न काऽपि संपदानीता बाहीका श्रूयतेऽमुना । तदयं मे कथं रत्नभृतं | स्थालमढौकयत् ॥ २६७ ॥ कथं वा रचयामास दिव्यमावासमञ्जसा । भ्रामं भ्रामं च किं देशान्तरादानयदद्भुतम् ॥ २६८ ॥ | तत्केनाप्यस्य पश्यामि छद्मना सद्म सद्मतेः । इत्यालोच्य नृपः प्रोचे विहस्यामात्यमन्यदा ॥ २६९ ॥ धर्मेण संपदं प्राप्य | भोजयन्नपि नासि नः । मन्त्रयप्यवोचदद्यैव प्रसादः क्रियतां मयि ॥ २७० ॥ राजा जगाद सामग्री कथं ते भाविनी द्रुतम् । सोऽप्याह धर्मतः सर्व सद्यः संपद्यते मम ॥ २७१ ॥ ॐमित्युक्त्वा नरेन्द्रोऽथ विस्मितो विससर्ज तम् । भोक्तुं च राजकं सर्वमाह्वयत्सपरिच्छदम् || २७२ || मन्त्रिमन्दिरमश्मन्त लुठन्मूषकमण्डलम् । श्रुत्वा जनमुखाच्चैष विस्मयोत्कर्षमा धे ॥ २७३ ॥ अथायं सर्वसामन्ताद्यपारपरिवारयुकू । आहूतस्तेन मध्याह्ने भोक्तुं तद्देहमागमत् ॥ २७४ ॥ कामकुम्भाहृतैस्तैस्तैर्दिव्याहारैः सुधोपमैः । सामन्ताद्यैः समं सद्यः स भूभुजमबूभुजत् ॥ २७५ ॥ दिव्यैश्चित्तानुकूलैश्च दुकूलैः पर्यधापयत् । अथ विस्मयवान् भूपः प्रश्नयामास मन्त्रिणम् ॥ २७६ ॥ दिव्यं वस्तु किमानिन्ये धन्य ! देशान्तरात्त्वया । जायन्ते यत्प्रसादेन
षष्ठः प्रकाशः ।
॥ ९३ ॥