SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जगण्यानि जाग्रति । यदकस्मादयं सङ्घः पवित्रयति मे दृशौ ॥ २४३ ॥ तदस्य भक्तिं निर्माय निर्ममे सफल जनुः । यदनशान्तगुणं पुण्यं तीर्थयात्रिकसत्कृतेः॥२४४ ॥ एवं विचिन्त्य भुत्यर्थ स सामनघाशयः। भक्त्या निमन्त्रयामास कः प्रमा-12 द्यत्यमूदृशे ॥ २४५ ॥ अथ सद्यः समुत्पन्नां कामकुम्भानुमानतः। श्रीसङ्घ भोजयामास दिव्यां रसवतीमसौ ॥ २४६॥ दुकूलैर्जनताचित्तानुकूलैरुल्लसन्मनाः। रत्नादिखचितैस्तं च समस्तं पर्यदीधपत् ॥ २४७ ॥ ततः सङ्घपतिस्तुष्टो निजवीजनवायुना । सर्वाधिव्याधिविध्वंसि दिव्यं चामरयामलम् ॥ २४८ ॥ हर्षादत्यर्थमभ्यर्थ्य ददौ तस्मै महात्मने । वस्त्वहमुत्तमे पात्रे कः सुधीर्निदधीत न ॥२४९॥ युग्मम् ॥ अथायं तैस्त्रिभिमूतः पुमरिव राजितः। क्रमेण स्वगृहं प्राप महोत्सव इवाङ्गवान् ॥ २५० ॥ इतश्च तद्दिने दध्यौ क्षोणीन्द्रः प्रैषि धीसखः । मया परीक्षितुं धर्म तद्वार्तापि न बुध्यते है | ॥ २५१ ॥ तदहं विदधे धर्मपरीक्षा सम्प्रति स्वयम् । स्यात्तदेव प्रमाणं हि प्रत्यक्षं यत्परीक्षितम् ॥ २५२ ॥ इदमेष्यति यं रत्नं तस्य कर्मानुसारतः। मया पुण्येऽथ वा पापे स्वीकार्या सुखहेतुता ॥ २५३ ॥ इति ध्यात्वा स रत्नेन लक्षमूल्येन |गर्भितम् । बीजपूर रहो दास्या ददौ विक्रेतुमापणे ॥ २५४ ॥ तदानीतं तया शाकापणे तत्क्षणमीयुषी । क्रीत्वा मूल्येन जगृहे स्वगृहे मन्त्रिगेहिनी ॥ २५५ ॥ तया भिन्नात्ततः प्रादुर्भूतं रत्नं प्रभूतरुक् । समर्पि मन्त्रिणे पुण्यपरं संपदुपैति हि ॥२५६ ॥ नृपस्तस्या मुखाद्रत्नं श्रुत्वा मन्त्रिगृहे गतम् । अहो ! धर्मस्य माहात्म्यमित्यभूत्किञ्चिदास्तिकः ॥ २५७ ॥ अथ मन्त्रीश्वरः क्लृप्तजिना भोजनादिकः । प्रत्यक्षं वीक्षतां धर्मफलं राजेति जातधीः ॥ २५८ ॥ स्वर्विमानमिवोत्तीर्ण सद्यः स्वर्णमणीमयम् । प्रासादं कामकुम्भेन सप्तभूममकारयत् ॥ २५९ ॥ युग्मम् ॥ स तत्र जनतानेत्रनियन्त्रणपरं निशि । नृत्यं
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy