SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ९२ ॥ सेऽधुना । प्रस्थितोऽस्मि तदाधाय प्रत्यागन्ताऽस्मि वेगतः ॥ २२६ ॥ तत्प्रसद्याधुना मुञ्च वलमाने पुनर्मयि । यथारुचिं विधातव्यं त्वदादेशवशोऽस्मि यत् ॥ २२७ ॥ इत्युक्त्या तेन तुष्टेन मुक्तः पुण्यप्रसादतः । मन्त्री प्राप क्रमात्तीर्थं हर्षप्रोमिषदीक्षणः ॥ २२८ ॥ तत्रानम्य युगादीशं प्रपूज्याद्भुतभङ्गिभिः । अयं वन्दितुमारेभे भक्त्या तल्लीनमानसः ॥ २२९ ॥ तदा तदान्तरोदारभक्तिव्यक्तिवशीकृतः । यक्षः प्रत्यक्षतामेत्य गोमुखस्तमभाषत ॥ २३० ॥ त्वद्भक्त्या भद्र ! तुष्टोऽस्मि वरं वृणु यथेप्सितम् । सोऽप्याह प्राप्तधर्मेणापरं किं प्रार्थ्यते मया ॥ २३१ ॥ ततस्तदीयसंतोषतोषितो यक्षनायकः । वितीर्य कामदं कामकुम्भं तस्मै तिरोदधे ॥ २३२ ॥ ततो दिनत्रयं तीर्थसेवया सफलं जनुः । विधाय सचिवः पश्चात्प्रतस्थे कामकुम्भयुक् ॥ २३३ ॥ स एवागच्छतस्तस्य समस्त निशाचरः । त्वामिदानीं हि खादामि खादामीति जगाद च ॥ २३४ ॥ मन्त्र्यप्याह किमेतेन देहेनाऽशुचिना मम । दिव्याहारान् सुधास्वादूनास्वादय दयालय ! ॥ २३५ ॥ क्रव्यादोऽपि जगादैवमस्तु देहि द्रुतं परम् । सोऽप्याशु कामकुम्भेन दापयामास तस्य तान् ॥ २३६ ॥ अथ तान् सुहितः स्वादं स्वादं क्रव्यादुवाद तम् । दिव्यं लकुटमादत्स्व सर्वाभीष्टार्थसाधकम् ॥ २३७ ॥ कामकुम्भं त्विमं मह्यं महाशय ! समर्पय । धीसखोsपि तथाऽकार्षीन सन्तः प्रार्थनाछिदः ॥ २३८ ॥ अथाग्रतो व्रजन् मन्त्री मध्याह्ने बाधितः क्षुधा । कामकुम्भं तमानेतुं लकुटं प्रतिशिष्टवान् ॥ २३९ ॥ लकुटोऽपि द्रुतं गत्वा कुट्टे कुट्टै तमुत्कटम् । निशार्ट सुभटप्रष्ठ इव तं घटमानयत् ॥ २४० ॥ कर्मणामनुकूलत्वे न स्यात्कस्यानुकूलता । शत्रोरेव यतः शस्त्रं संपदे तस्य तच्छिदे ॥ २४१ ॥ अथ तद्वयमादाय मन्त्रीन्द्रः प्रस्थितोऽग्रतः । नत्वा शत्रुञ्जयं प्राप्तं क्वापि श्रीसङ्घमैक्षत ॥ २४२ ॥ अहो ! प्राच्यानि पुण्यानि ममा षष्ठः प्रकाशः । ॥ ९२ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy