SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 45555555555 ॥५२९ ॥ परद्रोहेण ये मुग्धा ऋद्धिं विदधतेऽधमाः। प्रदीपनेन ते वेश्मप्रकाशं किल तन्वते ॥ ५३० ॥ परबन्धवधद्रोहद्रव्यापहरणादयः। जघन्यतोऽपि जायन्ते जन्तोः प्रेत्य दशाहताः॥ ५३१॥ वरं परगृहे दास्यं नैःस्व्यं वा सुचिरं वरम् । प्रभूतोऽपि परद्रोहप्रभवो विभवो न तु ॥ ५३२ ॥ यदेव रोचते स्वस्मै तत्परस्मै विधीयते । अहिंसादिमयं धर्मनिस्पन्दं तं विदुर्बुधाः॥५३३ ॥ ततः कुमार्गमुत्सृज्य जिघांसुमिव दूरतः। सखायमिव तं धर्म स्वीकुरुष्व सुखाकरम् | ॥५३४ ॥ एवं गुरूपदेशेन कतकेनेव कश्मलम् । सद्यस्तस्य मनस्तोयं शुध्यति स्म समन्ततः॥ ५३५ ॥ ततोऽसौ त्रसजन्तुनाममन्तूनां विघातनम् । प्रबुद्धः स्थूलचौर्य च यावज्जीवमवर्जयत् ॥ ५३६ ॥ पन्थानमिव तद्भष्टः सम्यग्धर्ममवाप्य सः। प्रमोदो दमेदस्वी मनस्वी तं व्यजिज्ञपत् ॥ ५३७ ॥ मयि वात्सल्यमुन्मील्य पदैः पल्ली पवित्रय । नीचस्यापि न किं वेश्म करैरिन्दुः प्रकाशयेत् ॥ ५३८॥ सोऽपि तस्याग्रहात्पल्लीमवाप सपरिच्छदः । न क्वापि प्रार्थनाभङ्गं कुर्वते हि महाशयाः॥ ५३९ ॥ अथ स्वर्णभृतं स्थालं भक्तिपूरमिवोज्वलम् । पल्लीपतिरुपानीय जजल्प प्राञ्जलिर्गुरुम् ॥५४०॥ मया सन्मार्ग आसेदे प्रसादेन तव प्रभो!। गृह्यतामनुगृह्याशु तदेषा गुरुदक्षिणा ॥ ५४१॥ ऋषिमुख्योऽप्यथाचख्यौ निःसङ्गं जैनदर्शनम् । ततो द्विजातिवज्जातु गृहीमो नैव दक्षिणाम् ॥ ५४२॥ किञ्च विज्ञ! हिरण्यादि द्युम्नं नादद्महे वयम् । छायातपाविव द्युम्नसंयमौ यद्विरोधिनौ ॥ ५४३ ॥ न दानमपि वित्तस्य निर्ग्रन्थायोचितं सताम् । कामक्रोधादयस्तेन वर्धन्ते हि व्रताहिताः॥५४४ ॥ शुद्धमाहारवस्त्रादि दीयते हि चरित्रिणे । तस्य संयमयोगानामुपकाराय यद्भवेत् ॥ ५४५ ॥ त्वयाऽस्मदुपदेशेन धर्मोऽयं यदुपाददे । तेनैव प्रीणिता राज्यदानादप्यधिक वयम् ॥ ५४६ ॥ गुरोर्वीक्ष्येति %AA-%AA-%ARRANC+S
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy