SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे दशम: प्रकाश ॥१७०॥ AAAAAACHAR सोऽपि चण्डपालस्तथावपुः । किंकर्तव्यतया मूढास्तस्थुरत्यर्थदुःस्थिताः ॥ ५१३ ॥ अत्रान्तरे रविज्योतिस्तर्जन्ती है निजतेजसा । भास्वराभरणा प्रादुरास शासनदेवता ॥ ५१४ ॥ प्रणम्य गुरुराज सा सामर्ष तानभाषत । अहं जिनक्रमाम्भोजभ्रमरी शासनामरी ॥ ५१५॥ यतीनमुं जिघांसन्तमवगम्योपयोगतः। सहसाऽहमिहागत्य स्तम्भयामास वः प्रभुम् ॥ ५१६ ॥ न पाप्मानममुं मुञ्चे दुराचारैकचारिणम् । यः साधुभ्योऽपि विश्वैकबन्धुभ्योऽपचिकीर्षति ॥५१७॥ मुखे पञ्चाङ्गलीः क्षिप्त्वा पल्लीशस्ते च तां जगुः । देवि ! वेदनया प्राणाः प्रयान्तः सन्ति सम्प्रति ॥५१८ ॥ इतः प्रभृति |नातन्मो मुनीनामवमाननम् । ततः प्रसद्य मुश्चाद्य सतां हि न चिरं रुषः॥ ५१९ ॥ तानवादीत्ततो देवी क्षमयित्वा गुरुत्तमम् । धर्म जिनोदितं सद्यो यद्ययं प्रतिपद्यते ॥ ५२० ॥ तदा गुरुक्रमाम्भोजरजःस्पर्शवशादसौ । व्यसनान्मुच्यते सूर्योदयादिन्दिन्दिरो यथा ॥ ५२१ ॥ अन्यथा खलु तन्मोक्षे ऋभुक्षा अपि न क्षमः । एवमुक्त्वा तिरोधत्त सद्यः सौदा|मिनीव सा ॥ ५२२ ॥ ओमिति प्रतिपन्नेऽथ तं गुरुक्रमरेणुना । भाले तिलकयामासुश्चन्दनेनेव सेवकाः ॥ ५२३ ॥ | स्वस्थावस्थामथास्थाय पल्लीनाथः पृथुर्मुदा । प्रणम्य विनयानम्रः क्षमयामास तं गुरुम् ॥ ५२४ ॥ सोऽपि तं पापसंतापव्यापनिर्वापकुल्यया । प्रापयन्त्या परां प्रीतिं गिरा पल्लीपतिं जगौ ॥.५२५ ॥ मनागपि न दूनोऽस्मि तन्मे का क्षमणा सखे । किमनामयकायस्य क्रियते हि प्रतिक्रिया ॥ ५२६ ॥ किन्त्विमा कुमतिं मुञ्च नीचाचारप्रचारिणीम् । रज्वेवाशु यया जीवः क्षिप्यते नरकावटे ॥ ५२७ ॥ राजन्नैश्वर्यमूर्जस्वि भुञ्जानोऽप्यतिनिन्दितम् । पापीयः कर्म धाय्यादि त्वं मुधा विदधासि किम् ॥ ५२८ ॥ द्रुह्यन्तो दम्भसंरम्भैः परेभ्यो धनलोलुभाः । व्यसनप्रापकत्वेन द्रुह्यन्ति ध्रुवमात्मने ॥१७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy